भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 388, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 388

३७० शतपथ ब्राह्मण तया॒ सोमं॑ क्रीणानीति॑ ॥१०॥ स॒ जुहोति । धू॒रसीत्येतद् वा अस्या एकं॒ नाम यद्धू॒रसीति॒ धृता॒ मन॑सेति॒ मन॑सा वाऽइ॒यं वाग्घृता॒ मनो॒ वाऽइ॒दं पु॒रस्ताद्वाच॒ इ- त्यं॒ वद॒ मैतद्वादी॒रित्यल॒ग्लामिव ह॒ वै वाग्वद॒त्यन्मनो॒ न स्यात्त॒स्मादाह॒ धृता॒ म- न॑सेति ॥११॥ जु॒ष्टा विष्ण॑व॒ऽइति॑ । जु॒ष्टा सोमा॒येत्ये॒वैतदाह॒ यन्म॑हि॒म इति॒ तस्या॑- स्ते॒ सत्यस॑वतः प्रस॒वऽइति॑ सत्यप्रसवा न एधि॒ सोमं॑ नोऽछेहीत्ये॒वैतदाह॒ तन्वो॒ यक्ष्म॑नशीय॒ स्वाहेति॒ स ह॒ वै तन्वो॒ यक्ष्म॑मश्नुते यो यज्ञस्योदृचं॒ गच्छ॑ति यज्ञस्योदृ- चं गछानीत्ये॒वैतदाह ॥१२॥ अथ॒ हिर॑ण्यमपोद्धरति । तन्मनु॒ष्येषु॒ हिर॑ण्यं करो- ति॒ स यत्स॒हिर॑ण्यं जुहुयात्प॒राङ् ह्यैवे॒तन्मनु॑ष्येभ्यो॒ हिर॑ण्यं प्र॒वृञ्ज्यात्तन्मनु॑ष्येषु हिर॑ण्यमभिग॒म्ये॑त ॥१३॥ सोऽपो॒द्धर॑ति । शु॒क्रम॑सि च॒न्द्रम॒स्यमृ॑तमसि वैश्वदे॒वम॑- सीति कृ॒त्स्नेन॒ पय॑सा ह्यवा पद्वेवे॒तदाह॒ शुक्रम॑सीति शु॒क्रꣳ ह्ये॑तच्च॒न्द्रम॑सीति चन्द्रꣳ॒ ह्ये॑तदमृ॑तमसीत्य॒मृतꣳ॒ ह्ये॑तद्वैश्वदे॒वम॑सीति वैश्वदे॒वꣳ ह्ये॑तत्प्रमुच्य तृणं॑ ब- र्॒हिष्य॑पिसृजति सूत्रेण॒ हिर॑ण्यं प्रब॒ध्नेति॑ ॥१४॥ अथाप॑रं चतुर्गृहीतमाज्यं॑ गृही॒त्वा । अ॒न्वार॒भस्व॒ यज॑मानेत्याहा॒पोर्णुवन्ति॒ शाला॑यै द्वा॑रे॒ दक्षि॑णतः सोमक्रय॒ण्युप॑तिष्ठते तत्प्र॒ह्निता॑मे॒वैना॑मे॒तत्सर्तो॒ प्राहि॑षीद्गा॒ग्वे सो॑मक्रयणी नि॒दाने॑न ता॒मेतया॒ऽभ्य॒त्याप्रे॑- षीत्प्री॒तया॒ सोमं॑ क्रीणानीति॑ ॥१५॥ अथोप॒निष्क्रम्या॑भिमन्त्रयते । चि॒दसि॒ मना॑- सीति चि॒त्तं वाऽइ॒दं मनो॑ वागनुवदति धीर॑सि दक्षि॑णेति धि॒या-धि॑या ह्ये॑त॒या म- नु॒ष्या॒ जुहु॑ष्य॒न्त्यनू॒क्तेनैव प्र॒कामो॒द्येने॑व गाथाभि॑रिव त॒स्मादाह॒ धीर॑सीति दक्षि॑णे- ति दक्षि॑णा ह्ये॑षा क्ष॒त्रिया॑सि य॒ज्ञिया॑सीति क्ष॒त्रिया॒ ह्ये॑षा य॒ज्ञिया॒ ह्ये॒षादिति॑र- स्युभयतःशी॒र्ष्णती स॒ यदेनया समा॒नꣳ स॒द्विप॑र्यासं॒ वद॑ति॒ यद॒परं॒ तत्पूर्वं॑ करोति यत्पूर्वं॒ तद॒परं॒ तेनोभयतःशी॒र्ष्णी त॒स्मादाहा॒दिति॑रस्युभयतःशी॒र्ष्णीति॑ ॥१६॥ सा नः॒ सु॒प्राची॒ सु॒प्रती॒च्येधी॑ति । सु॒प्राची न एधि॒ सोमं॑ नो॒ऽछेहीत्ये॒वैतदाह॒ सु॒प्रती॑- ची त एधि॒ सोमे॑न नः सह॒ पुन॒रेहीत्ये॒वैतदाह॒ तस्मा॑दाह॒ सा नः॒ सु॒प्राची॒ सु॒प्र-