भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 40, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 40

त॒स्मादुपवेषो नाम ॥३॥ तेन प्राचोऽङ्गारा॒नुद्ध॑रति । अ॒पा॒ग्निम॒ग्नि॑मा॒मादं॑ ज॒हि निष्क्रव्यादं॑ सेध॒त्ययं वाऽआ॒माद्येने॒दं मनुष्याः प॒क्वमश्न॒न्त्यथ॒ येन॒ पु॒रुषं द॒हन्ति॒ स क्रव्या॑दि॒तदु॒भय॒मेवैत॑दु॒भयतोऽप॑हन्ति ॥४॥ अथा॒ङ्गार॒मास्कौति । आ दे॑वयजं॑ व॒हेति॑ यो दे॑वया॒ट् तस्मि॑न् ह॒वीꣳषि श्रप॒याम॒ तस्मि॒न्यज्ञं॑ तनवामहा॒ऽइति॒ तस्मादाहा॒ऽऽस्कौ- तीति॑ ॥५॥ तं मध्य॒मेन कपाले॒नाभ्यु॑पदधाति । दे॒वा ह वै य॒ज्ञं त॒न्वाना॒स्तेभ्यो॒ऽसुरर- क्षसेभ्य आसङ्गाद्बि॒भयां॑चक्रुर्नॆन्नो॒ऽधस्ता॒न्नाष्ट्रा रक्षा॑ꣳस्युपोत्ति॒ष्ठान्नित्यग्नि॒र्हि रक्षसाम- पह॒न्ता तस्मा॑देवमु॒पद॑धाति तथो॒ ह्येष ए॒व भव॑ति ना॒न्य ए॒ष हि य॒ज्ञियो॒ मेध्य॒स्त- स्मान्मध्य॒मेन कपाले॒नाभ्यु॑पदधाति ॥६॥ स उ॑पदधाति । ध्रु॒वम॑सि पृथि॒वीं दृꣳहेति॑ पृथि॒व्या ए॒व रू॒पेणैतद् दृꣳहत्येतयै॒व द्विषन्तं॑ भ्रातृ॑व्यमवबाधते ब्रह्म॒वनि त्वा क्षत्र॒वनि सजातवन्यु॑पदधामि भ्रातृ॑व्यस्य वधा॒येति ब॒ह्वी वै य॒ज्ञस्या॒शीस्तद्यद्ब्रह्म॑ च क्षत्रं॑ चाशास्त॒ऽउभे वी॒र्ये सजातवनीति भूमा वै सजातास्तद्भूमान॒माशास्त॒ऽउपद॑धा- मि भ्रातृ॑व्यस्य वधा॒येति यद्यु॑ऽभिचरे॒द्यद्यु॑ नाभिश्चरेद॒मुष्य॑ वधा॒येति ब्रूयाद॒भिनि॒- ष्टितमि॑व स॒व्यस्य पा॒णेरङ्गु॑ल्या भवति ॥७॥ अथा॒ङ्गार॒मास्कौति॑ । नेदि॒ह पुरा नाष्ट्रा रक्षा॑ꣳस्याविशा॒न्निति॒ ब्राह्मणो॒ हि रक्ष॑सामपहन्ता तस्मादभिनि॒ष्टित॑मे॒व स- व्यस्य पा॒णेरङ्गु॑ल्या भवति ॥८॥ अथा॒ङ्गारमभ्यू॑हति । अग्ने॒ ब्रह्म॑ गृभा॒णीति॒ ने- दि॒ह पु॒रा नाष्ट्रा रक्षा॑ꣳस्याविशा॒न्नित्य॒ग्निर्हि रक्ष॑सामपहन्ता तस्मादेनम॒भ्यू॑ह॒ति ॥९॥ अथ यत्पश्चात्तदुप॑दधाति । धरु॒णम॑स्यन्तरि॑क्षं दृꣳहेत्य॒न्तरि॑क्षस्यै॒व रू॒पेणैत