शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 448, कुल 699 में से
संदर्भ में पढ़ें४३० शतपथ ब्राह्मण वि॒ क्वास्याहवनी॑यो भवति॒ नभ्य॑स्ये करोति॒ तद्धि ने॑मस्य रू॒पम् ॥२०॥ अथोत॑- रेण॒ पर्ये॑त्याध॒र्युः । द॒क्षिण॑ꣳ ह॒विर्धान॒मुप॑स्तम्भाति॒ विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजा॑ꣳसि । योऽअस्क॑भायदुत्त॒रंꣳ स॒धस्थं॑ विचक्रमा॒णस्त्रेधो- रुगा॒यो विष्ण॑वे त्वेति॒ मेथी॑मुप॑नि॒हन्ती॑त॒रत॑स्त॒तो यद् व॒ मानु॑षे ॥२१॥ अथ प्र- तिप्रस्थाता॑ । उत्त॑रꣳ ह॒विर्धान॒मुप॑स्तम्भाति दि॒वो वा॑ विष्ण॒ऽउ॒त वा॑ पृथि॒व्या म॒- हो वा॑ विष्ण॒ऽउ॒रोर॒न्तरि॑क्षात् । उ॒भा हि ह॑स्ता॒ वसु॑ना पृ॒णस्वा प्र यच्छ॒ दक्षि॑णा॒- दोत् स॒व्याद्विष्ण॑वे त्वेति॒ मेथी॑मुप॑नि॒हन्ती॑त॒रत॑स्त॒तो यद् व॒ मानु॑षे तमृ॒द्वेह्व॑वै॒र्यङ्गु- र्भिरुप॑चरन्ति वैष्ण॒वꣳ हि ह॒विर्धान॑म् ॥ २२॥ अथ मध्य॒मं छ॒दिरुप॑स्पृ॒श्य वा॑चयति । प्र तद्विष्णु॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्र- मणेष्वधिक्षिय॑न्ति॒ भुव॑नानि॒ विश्वेति॒ीदꣳ है॒वास्यैतच्छीर्ष॑कपालं॒ यदि॒दमु॑प॒रिष्टा॒च्छदि॒र- थ्येत॒त्क्षिय॒न्त्यन्या॑नि शीर्ष॑कपाला॒नि तस्मा॑दाहाधिक्षि॒यन्तीति॑ ॥२३॥ अथ रा॒राच्या॒- मुप॑स्पृ॒श्य वा॑चयति । विष्णो॒ रराट॑मसीति लला॒टꣳ है॒वास्यैतदथो॒श्राच्या॒ऽउप॑स्पृ- श्य वा॑चयति विष्णोः॒ श्नप्त्रे॑ स्थ॒ इति॒ सृक्वे॑ है॒वास्यैते॒ऽथ य॒दिदं प॒श्चाच्छ॑दिर्भव- तीदꣳ॑ है॒वास्यैतच्छीर्ष॑कपालं॒ यदि॒दं प॒श्चात् ॥२४॥ अथ ल॒स्यूर्ज॒न्या स्यून्त्यया प्रसी॑- व्यति । विष्णोः॒ स्यूर॑सीत्यथ ग्रन्थिं करोति विष्णोर्ध्रु॒वोऽसी॑ति नेह्य॑वप॒द्याता॒ऽइति॑ तं प्र॒कृते कर्म॒न्विष्य॑ति तथो॒ ह्वाध॒र्युर् वा यज॑मानं वा या॒हो न॑ विन्दति तम॒भिष्ठि- तम॒भिमृ॑शति वैष्ण॒वम॑सीति वैष्ण॒वꣳ हि ह॒विर्धान॑म् ॥२५॥ ब्राह्मणम् ॥ ३ [५.३] ॥ ॥ द्वयं वाऽइदमुपर॑वाः खायन्ते । शिरो॒ वै य॒ज्ञस्य ह॒विर्धानं॒ तद्य॒ऽइमे शी॒र्षन्स॒- ञ्चारः॒ कूपा इ॒माव॑ह॒ द्वाविमौ द्वौ ताने॒वैतत्क॑रोति॒ तस्मा॑दुपर॒वान्खन॑न्ति ॥१॥ दे॒- वाश्च॒ वाऽअसु॑राश्च । उभ॑ये प्राजाप॒त्याः प॑स्पृधिरे । ततो॒ऽसु॑रा ए॒षु लो॒केषु कृ॒त्यां व॒ल्गामभिच॑खु॒रुते॑वं चिद्दे॒वानभिभ॑वे॒मेति॑ ॥२॥ तद्धै दे॒वा अ॑शृण्वत । तऽए॒तैः कृत्या॒ वलगानुद॑खनन्यदा वै कृत्यामुत्खनन्त्यथ सालसा मोघा भवति तथोऽए-