शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 452, कुल 699 में से
संदर्भ में पढ़ें४३४ शतपथ ब्राह्मण त्किर॒त्युत्कृत्यां॑ किरामी॒त्यक्ष॑त उद्व॑पति॒ तत्कृत्या॑मु॒त्किर॑ति ॥ १२॥ तान्बाहुमा॒त्रा- न्खनेत् । अ॒त्तो वाऽए॒षोऽत्ते॑नै॒वैतत्कृत्यां॑ मोहयति ता॒नन्य॒था सं॑तृ॒णत्ति॒ यद्य- न्यान्या॒ न श॑क्नुया॒दपि॑ समीच॒स्तस्मा॑दि॒मे प्रा॒णाः परः॒ संतृ॑ण्णाः ॥ १३॥ तान्यथाखा- त॒मेवाव॑म॒र्शय॑ति । स्व॒राड॑सि सपत्न॒हा सत्र॒ाडस्य॑भिमाति॒हा जन॒राड॑सि रक्षो॒हा सर्व॒राड॑स्यमित्र॒हेत्या॒शीरैवैषैतस्य॒ कर्म॑ण आ॒शिष॑मे॒वैतदा॒शास्ते॑ ॥ १४॥ अ॒थाध्व॒र्युश्च यज॑मानश्च॒ संमृ॑शेते । पूर्व॒योर्दक्षि॑णोऽध्व॒र्युर्भव॑त्यप॒रयो॒रुत्त॑रो॒ यज॑मानः सोऽध्व॒र्युः पृ- च्छति॒ यज॑मान॒ किमत्रेति॒ भद्र॒मित्या॑ह॒ तन्नौ स॒हेत्युपौ॑ऽध्व॒र्युः ॥ १५॥ अथाप॒रयो॒र्ह- क्षिणोऽध्व॒र्युर्भव॑ति । पूर्व॒योरुत्त॑रो॒ यज॑मानः स॒ यज॑मानः पृच्छ॒त्यध्व॑र्यो॒ किमत्रेति॒ भद्र॒- मित्या॑ह॒ तन्म॒ इति॒ यज॑मानस्तद्यदे॒वा॑ संमृ॑शेते प्रा॒णानि॑वै॒तत्संयु॑जः कुरुतस्तस्मा- दि॒मे प्रा॒णाः परः॒ संवि॑द्धे॒ऽथ यत्पृ॑ष्टो भ॒द्रमिति॑ प्रत्या॒ह क॒ल्याणी॑मे॒वैतन्मानु॒षीं वा- चं॒ वद॑ति तस्मात्पृ॒ष्टो भ॒द्रमिति॑ प्रत्या॒हाथ॒ प्रोक्ष॑त्ये॒को वै प्रोक्ष॑णस्य॒ बन्धु॑र्मेध्या॑- न्ये॒वैतत्क॑रोति ॥ १७॥ स॒ प्रोक्ष॑ति । र॒क्षो॒हणो॑ वो वलग॒हन॒ इति॑ र॒क्षो॒हणो॑ ह्ये॑ते वलग॒हनो॑ ह्ये॑ते॒ प्रोक्षा॑मि वैष्ण॒वानिति॑ वैष्ण॒वा ह्ये॑ते ॥ १८॥ अथ॒ याः प्रो- क्षण्यः॒ परिशि॑ष्य॒न्ते । ता॒ अव॑टे॒ष्ववन॑यति॒ तद्या॑ इ॒माः प्रा॒णेष्व॒पास्ता ए॒वैतद्द॑धाति॒ तस्मा॑दि॒षु प्रा॒णेष्वि॒मा आपः॑ ॥ १९॥ सोऽव॑नयति । र॒क्षो॒हणो॑ वो वलग॒हनोऽव॑- नयामि वैष्ण॒वानित्यथ॑ ब॒र्हीषि प्राचीन॒ाग्राणि॑ चोदीची॒नाग्राणि॑ चा॒वस्तृ॑णाति ह्यानी॒मानि॑ प्रा॒णेषु॒ लोमा॑नि ता॒न्येवैतद्द॑धाति॒ तस्मा॑दे॒षु प्रा॒णेष्वि॒मानि॒ लोमा॑- नि ॥ २०॥ सोऽव॑स्तृणाति । र॒क्षो॒हणो॑ वो वलग॒हनोऽव॑स्तृणामि वैष्ण॒वानि- त्यथ॑ ब॒र्हिषि॑ त॒नूनो॑वो॒परि॑ष्टा॒त्प्रच्छा॑दयति केशा ह्यैवा॒स्यैते॑ ॥ २१॥ अथा॑धिषव॒णे फल॒केऽउ॑पदधाति । र॒क्षो॒हणौ॑ वां वलग॒हनावु॑पदधामि वैष्ण॒वीऽइति॑ क॒नू है- वास्यैतेऽअथ॒ पर्यू॑हति र॒क्षो॒हणौ॑ वां वलग॒हनौ॒ पर्यू॑हामि॑ वैष्ण॒वीऽइति॑ दृꣳह॑- त्ये॒वैने॑ऽए॒तद॑शिथिले करोति ॥ २२॥ अ॒थाधिषव॑णं परि॒कृत्तं॑ भवति । सर्व॑रोहितं