भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 454, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 454

४३६ शतपथ ब्राह्मण

जिह्वा॒ ह्यैवाष्यैषा तद्य॒त्सर्व॒रोहितं भवति लोहिनीव॒ हीयं जिह्वा तन्नि॒दधाति वैष्ण॒वमसी॑ति वैष्ण॒वꣳ ह्ये॒तत् ॥२३॥ अथ ग्राव्णा उपाव॒हरति । दन्ता॒ ह्यैवास्य ग्रा- वाणस्तद्यद्ग्रावभिरभिषु॒ण्वन्ति यथा॒ दद्भिः प्स्यादेवं तत्तान्नि॒दधाति वैष्ण॒वा स्थेति वैष्ण॒वा ह्ये॒त ऽएत॒द्यज्ञस्य॒ शिरः॒ सꣳस्कृ॒तम् ॥२४॥ ब्राह्मणम् ॥४ [५.४] ॥ ॥ पञ्च- मोऽध्यायः [२०] ॥ ॥ उद॒रमेवास्य सदः॑ । तस्मात्स॒दसि भक्षयन्ति यद्धीदं किं चाश्न॒त्युद॒रऽए॒वैदꣳ सर्वं॒ प्रति॒तिष्ठत्यथ॒ यदस्मिन्विश्वे॑ दे॒वा अ॒सीदंस्तस्मात्स॒दो नाम तऽउ॒ऽए॒वास्मिन्नेते ब्रा- ह्मणा वि॒श्वगो॑त्राः सीदन्त्यैन्द्रं देवतया ॥१॥ तन्मध्य॒ऽऔदुम्बरीं मिनोति । अन्नं॒ वाऽऊर्गौदुम्बर उद॒रमेवास्य॒ सद॒स्तन्मध्य॒तोऽन्नाद्यं दधाति तस्मान्मध्य॒ऽऔदु॒म्बरीं मिनोति ॥२॥ अथ य ऽएष मध्यमः शङ्कुर्भव॑ति । वेदे॒रर्धनार्थे तस्मात्प्राङु प्रक्राम- ति षट्प्रक्रमान्दक्षिणा सप्तममपक्रामति सम्यदः कामाय तदव॒टं प॑रिलि॒खति ॥३॥ सोऽभिमाद॑त्ते । दे॒वस्य त्वा सवितुः प्र॒सवे॒ऽश्विनो॒र्बाहुभ्यां पू॒ष्णो हस्ता॑भ्यामाद॒दे नार्य॑सीति समा॒न ऽए॒तस्य यजुषो बन्धु॒र्योषो वाऽए॒षा यद॒भ्रिस्तस्मादाह॒ नार्य॑सी- ति ॥४॥ अथाव॒टं प॑रिलि॒खति । इ॒दम॒हꣳ रक्ष॑सां ग्रीवा अपिकृन्ता॒मीति॒ वज्रो वाऽअभ्रिर्व॑ज्रेणैवैतन्नाष्ट्राणाꣳ रक्ष॑सां ग्रीवा अपिकृन्तति ॥५॥ अथ खनति । प्रा- ञ्चमुत्कर॒मुत्कि॑रति यज॑मानेन संमायौदु॒म्बरीं परिवासयति तामग्रेण प्राचीं निद॒- धात्येतावन्मात्राणि बर्हीꣳष्युपरिष्टादधिनि॒दधाति ॥६॥ अथ प्लवमत्या॒ प्रोक्ष॑ण्यो भवन्ति । आपो॒ ह वाऽअ॒ोषधीनाꣳ र॒सस्तस्मादोषधयः केवल्यः खादिता न॒ धि- न्वन्त्योषधय उ ह्यापाꣳ र॒सस्तस्मादापः पीताः केव॑ल्यो न धिन्वन्ति य॒द्वैवोभय्यः॒ सꣳसृष्टा भवन्त्येव धिन्वन्ति तर्हि हि स॒रसा भवन्ति सर॒साभिः प्रोक्षा॒णीति ॥७॥ देवाश्च वाऽअसु॑राश्च । उ॒भये प्राजापत्याः प॒स्पृधिरे ततो दे॒वेभ्यः॒ सर्वा॒ ऽओष॑धय ईयुर्यथा ह्वे॒वेभ्यो॒ नेयुः ॥८॥ तद्धे देवा अशृण्वत । तऽए॒तैः सर्वाः सपत्नानामो-