भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 56, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 56

लोका॒ अद्धो॑ तद्य॒द्यजु॑स्तस्माच्चि॒र्य्यजु॑षा ह॑रति ॥२०॥ तूष्णीं॑ चतु॒र्थम् । स यदि॒मां- ल्लोका॒नति॑ चतु॒र्थम॑स्ति वा॒ न वा॒ तेनै॒वैतद्वि॒षन्तं॒ भ्रातृ॑व्यमवबाधते॒ऽनद्धा॒ वै तद्य॒- दि॒मांल्लोका॒नति॑ चतु॒र्थम॑स्ति वा॒ न वा॒नद्धो॒ तद्य॒त्तूष्णीं॒ तस्मा॑त्तू॒ष्णीं चतु॑र्थम् ॥२१॥ ब्राह्मणम् ॥२[४]॥ दे॒वाश्च॒ वाऽअ॑सुराश्च । उ॒भये॑ प्राजाप॒त्याः प॑स्पृधिरे॒ ततो॑ दे॒वा अनु॑व्यमिवा- सु॒रय॒ ह्वासु॑रा मेनिरे॒ऽस्माक॑मे॒वेदं खलु॒ भुव॑नमिति ॥१॥ ते होचुः । हन्ते॒मां पृ॑- थि॒वीं विभ॑जामहै॒ तां विभ॒ज्योप॑जीवा॒मेति॒ तामौ॒द्गोश्चर्म्म॑भिः पश्चा॒त्प्राञ्चो॒ विभ॑ज- माना अभीयुः ॥२॥ तद्धे देवाः॑ शुश्रु॒वुः । विभ॑जन्ते ह॒ वाऽइ॒मामसु॑राः पृथि॒वीं प्रेत॒ तदे॑ष्यामो॒ यत्रे॒मामसु॑रा विभ॑जन्ते॒ के ततः॑ स्याम॒ यद॑स्यै॒ न भजे॑महीति॒ ते य॒ज्ञमे॒व विष्णुं॑ पुर॒स्कृत्ये॑युः ॥३॥ ते होचुः । अनु॑ नो॒ऽस्यां पृ॑थिव्या॒माभ॑जत॒स्त्वेव॑ नो॒ऽप्यस्यां॑ भाग॒ इति॒ ते ह्वासु॑रा असूयन्त-इ॒वोचु॒र्य्याव॑दे॒वैष विष्णुर॒भिशेते॒ ताव॑द्वो दद्म॒ इति॑ ॥४॥ वाम॒नो ह॒ विष्णुरा॑स । तद्दे॒वा न जि॑हीडिरे म॒हद्वै नो॑ऽदु॒र्य्ये नो॑ य॒ज्ञसं॑मितम॒दुरिति॑ ॥५॥ ते प्राचं॒ विष्णुं॑ नि॒पाद्य॑ । छ॒न्दोभि॑र॒भितः॒ पर्य्य॑गृह्णन्ग़ा॒यत्रे॑ण त्वा छन्द॑सा॒ परि॑गृह्णामीति॒ दक्षि॑णतस्त्रै॒ष्टुभेन॑ त्वा॒ छन्द॑सा॒ परि॑गृह्णामीति प॒श्चाज्जा॑- ग॒तेन॑ त्वा॒ छन्द॑सा॒ परि॑गृह्णामी॒त्युत्त॑रतः ॥६॥ तं छन्दो॑भि॒रभि॑तः॒ परि॑गृह्य । अ॒ग्निं पु॒रस्ता॑त्स॒माधा॑य तेना॑र्च॒न्तः श्राम्य॑न्तश्चेरू॒स्तेने॒मां सर्वां॑ पृथि॒वीं स॑मविन्दन्त॒ तय्- द्ये॑नै॒नेमाꣳ सर्वां॑ सम॒विन्द॑न्त॒ तस्मा॑द्वे॒दिर्न्ना॑म॒ तस्मा॑दाहुर्य्याव॑ती वे॒दिस्ता॑वती पृथि॒- वीत्ये॑तया॒ ह्ये॑माꣳ सर्वां॑ समा॒विन्द॑न्तै॒वꣳ ह॒ वाऽइ॒मां सर्वां॑ स॒पत्नौ॑नाꣳ सं॒वृङ्क्ते॑ नि॒र्ब्भ॑ज॒त्यस्यै॑ स॒पत्नौ॒न्य ए॒वमे॒तद्वेद॑ ॥७॥ सो॒ऽयं विष्णुर्ग्ग्लानः॑ । छन्दो॑भि॒रभि॑तः प॒- रि॒गृही॑तो॒ऽग्निः पु॒रस्ता॒न्नाप॑क्रमणमास स तत॑ ए॒वौष॑धीनां मू॒लान्युप॑मुम्लोच ॥८॥ ते ह॒ देवा॑ ऊचुः॒ । क्वा नु विष्णुर॑भू॒त्क्वा नु य॒ज्ञोऽभू॒दिति॑ ते होचुश्छन्दो॑भि॒रभि॑तः प॒रि॒गृही॑तो॒ऽग्निः पु॒रस्ता॒न्नाप॑क्रमणम॒स्त्यत्रै॒वान्वि॑च्छतेति॒ तं खन॑न्त-इवा॒न्वीषु॒स्तं