शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 58, कुल 699 में से
संदर्भ में पढ़ें४० शतपथ ब्राह्मण त्र्य॒ङ्गुले॒न्ववि॑न्दं॒स्तस्माच्च॒त्र्यङ्गुला वेदि॑ः स्यात्त॒द्ध ह्यपि॑ पाश्चि॒त्त्र्यङ्गुलमिव॑ सौम्यस्या- ध्व॒रस्य॒ वेदिं॑ चक्रुः ॥ ९॥ तदु॒ तथा॒ न कु॒र्यात् । ओष॑धीनां वै स मू॒लान्युपो॑ह्रो- च्चत्तस्मा॒दोष॑धीनामिव मू॒लान्युक्रे॒त्तवै॑ ब्रूयाद्य॒न्त्वेवात्र॑ वि॒त्तुमन्व॑विन्दंस्तस्मा॑द्दि॒र्दिना- म ॥ १०॥ तम॒नुवि॒द्योत्त्त॑रेण परि॒ग्रहे॑ण पर्य॑गृह्णन् । सुग्न्धा चासि॒ शिवा॒ चासीति॑ दक्षि॑णत इ॒मामे॒वैतत्पृ॑थि॒वीꣳ संवि॒द्य सु॒ग्न्धाꣳ शिवाम॑कुर्वत स्यो॒ना चा॑सि सुष॒दा चासी॑ति प॒श्चादि॒मामे॒वैतत्पृ॑थि॒वीꣳ संवि॒द्य स्यो॒नाꣳ सुष॒दाम॑कुर्वतो॒र्जस्व॑ती चा॑सि पय॑स्वती चेत्युत्त॑रत इ॒मामे॒वैतत्पृ॑थि॒वीꣳ संवि॒द्य र॑सवतीमुपजी॒वनी॑यामकुर्वत ॥ ११॥ स वै त्रिः पूर्वं परि॒ग्रहं॒ परि॑गृह्णाति । त्रिरुत्त॑रं॒ तत्षट् कृ॒त्वः षड्वाऽऋ॒तवः॑ सं॑वत्स॒रस्य॑ संवत्स॒रो य॒ज्ञः प्र॒जाप॑तिः स यावा॒नेव॑ य॒ज्ञो याव॑त्यस्य मा॒त्रा ताव॑त- मे॒वैतत्परि॑गृह्णाति ॥ १२॥ षड्भि॒र्व्याहृ॑तिभिः । पूर्वं परि॒ग्रहं॒ परि॑गृह्णाति षड्भि॒रु- त्तरं॒ तद्द्वाद॑श कृ॒त्वो द्वाद॑श वै मासाः सं॑वत्स॒रस्य॑ संवत्स॒रो य॒ज्ञः प्र॒जाप॑तिः स या- वा॒नेव॑ य॒ज्ञो याव॑त्यस्य मा॒त्रा ताव॑तमे॒वैतत्परि॑गृह्णाति ॥ १३॥ व्याममा॒त्री प॒श्चा- त्स्यादित्याहुः । ए॒तावा॒न्वॆ पुरु॑षः पुरु॑षसंमिता हि य॒ज्ञस्तिः प्राची त्रिवृ॑द्धि य॒ज्ञो नात्र मा॒त्रास्ति॒ याव॑तीमे॒व स्वयं मन॑सा म॒न्येत॒ ताव॑तीं कुर्यात् ॥ १४॥ अ॒भि- तोऽग्निमं॑सा॒ऽउन्न॑यति । योषा॒ वै वेदि॑र्वृषा॒ग्निः परि॑गृह्य वै योषा॒ वृषाणꣳ शेते मि॑थु॒नमे॒वैतत्प्र॒जन॑नं क्रियते तस्मा॑द॒भितो॑ऽग्निमं॑सा॒ऽउन्न॑यति ॥ १५॥ सा वै प॒श्चा- द्वरी॑यसी स्यात् । मध्ये॑ सं॒ग्राह्या॑ पुन॑ः पु॒रस्ता॑दु॒र्व्येवमिव हि योषां॑ प्रशं॑सन्ति पृ॒थुश्रोणिर्विमृ॑ष्टा॒न्तरांसा॒ मध्ये॑ सं॒ग्राह्येति॑ जु॒ष्टमे॒विनाम॑तद्दे॒वेभ्यः॑ करोति ॥ १६॥ सा वै प्राक्प्रव॑णा स्यात् । प्राची॒ हि दे॒वानां॒ दिगथो॑ऽउदक्प्रव॑णोदीची॒ हि म- नुष्या॑णां॒ दिग्द॑क्षिणतः पु॒रीषं॑ प्रत्युद्द्रुत्येषा वै दिग्पितॄणाꣳ सा यद्द॑क्षिणाप्रव॑णा स्यात् क्षि॒प्रे ह॒ यज॑मानोऽमुं लो॒कमिया॒त्तथो ह॒ यज॑मानो ज्योङ्जी॑वति॒ तस्मा॑द्- क्षिणतः॑ पु॒रीषं॒ प्रत्युद्द्रुह॑ति पुरीषव॒तीं कु॑र्वीत प॒शवो॒ वै पुरी॑षं प॒शुमती॑मे॒वैना-