शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 60, कुल 699 में से
संदर्भ में पढ़ें४२ शतपथ ब्राह्मण
मेतत्कुरुते ॥ १७॥ तां प्र॑ति॒मार्ष्टि । दे॒वा ह॒ वै सं॒ग्राम॒ꣳ सं॒निधा॑स्यन्तस्ते॒ होचु॒र्हन्त॑ यद॒स्यै पृ॑थि॒व्याऽअ॒नामृ॑तं देव॒यज॑नं॒ तच्च॒न्द्रम॑सि नि॒दधा॑महै॒ स यदि॑ न॒ऽइतो॒ऽसुरा॑ ज॑येयु॒स्तत॑ ए॒वार्च॑न्तः॒ शाम्य॑न्तः॒ पुन॑रभि॒भवे॑मेति॒ स यद॒स्यै पृ॑थि॒व्याऽअ॒नामृ॑तं दे॒व- यज॑नमासी॒त्तच्च॒न्द्रम॑सि न्यदध॒त तदे॒तच्च॒न्द्रम॑सि कृ॒ष्णं तस्मादाहुर॒श्चन्द्रम॑स्यस्यै पृ॑थि॒व्यै दे॒वयज॑न॒मित्यपि॑ ह॒ वाऽअ॒स्यैतस्मि॑न्दे॒वयज॑न॒ऽइष्टं भवति॒ तस्मा॑द्धि प्र॑ति॒मार्ष्टि ॥ १८॥ स प्र॑ति॒मार्ष्टि । पुरा क्रूरस्य॑ वि॒सृपो॑ विर॒प्शिनि॒ति सं॒ग्रामो वै क्रू॒रꣳ सं॑- ग्रामे॒ हि क्रूरं क्रि॒यते॑ ह॒तः पुरु॑षो ह॒तोऽश्वः॒ शेते॑ पु॒रा ह्ये॑त॑त्सं॒ग्रामा॒न्न्यद॑धत॒ त- स्मादाह पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विर॒प्शिनि॒त्युदादाय॑ पृथि॒वीं जी॒वदा॑नु॒मित्यु॒दादाय॑ हि यद॒स्यै पृ॑थि॒व्यै जी॒वमासी॒त्तच्च॒न्द्रम॑सि न्य॑दध॒त तस्मा॑दा॒होदादाय॑ पृथि॒वीं जी॒वदा॑- नु॒मिति॒ यामेरय॑ꣳश्च॒न्द्रम॑सि स्व॒धाभि॒रिति॒ यां च॒न्द्रम॑सि ब्रह्मणा॒दधु॒रित्ये॒वैतदा॑ह॒ तामु धीरा॑सो॒ऽअनु॑दिश्य यजन्त॒ऽइत्ये॒तेनो॑ ह॒ तामनु॑दिश्य यजन्त॒ऽपि॑ ह॒ वाऽअ॒स्यै- तस्मि॑न्दे॒वयज॑न॒ऽइष्टं भव॑ति॒ य ए॒वमे॒तद्वेद॑ ॥१९॥ अथाहा प्रो॒क्षणी॒रासा॑द॒येति॑ । वज्रो॒ वै स्फ्यो ब्रा॑ह्म॒णस्त्वं पुरा य॒ज्ञम॒भ्यनू॑त॒द्गुप॑तां वज्रो वाऽआप॒स्तद्ब्रह्मै॒वैतद॒भि- गु॒प्त्याऽऽसा॑दयति स वा॒ऽउपर्य्युपर्य्येव प्रो॒क्षणी॑षु धार्य्यमा॒णास्वथ॑ स्फ्यमु॒द्यच्छे॒त्यथ॑ यन्निहि॑तऽएव॒ स्फ्ये प्रो॒क्षणी॒रासा॑दयेद्व॒ज्रौ ह॒ समृ॑द्धेयातां॒ तथो॑ ह॒ वज्रौ न समृ॑द्धेते त॒स्मादु॒पर्य्युपर्य्येव प्रो॒क्षणी॑षु धार्य्यमा॒णास्वथ॑ स्फ्यमु॒द्यच्छ॑ति ॥ २०॥ अथैतां वाचं वद- ति । प्रो॒क्षणी॒रासा॑दये॒ध्मं ब॒र्हिरुप॑सादय स्रुचः॒ संमृ॑ड्ढि॒ पत्नीं संन॑ह्याज्ये॒नोदे॒हीति॑ संप्रैष॒ ए॒वैष स यदि॑ कामयेत ब्रूयादेतद्यद्यु कामयेतापि नाद्रियेत स्व॒यमु ह्येवैत- द्दे॒देद॒मतः॒ कर्म॒ कर्त॒व्यमि॑ति ॥ २१॥ अथोद॒ञ्चꣳ स्फ्यं प्रह॑रति । अ॒मुष्मै॑ त्वा व॒ज्रं प्रह॑रा॒मीति॑ यद्य॒भिच॑रेद्व॒ज्रो वै स्फ्य स्स्तृणु॑ते॒ ह्यैवैने॑न ॥ २२॥ अथ पाणी॒ऽअ- वनेनिक्ते । य॒द्यस्यै क्रूरमभूत्त॒द्व्यस्याऽए॒तद॒हार्षीतस्मात्पाणी॒ऽअव॑नेनिक्ते ॥ २३॥ स ये ह्यग्र॒ऽईजिरे॑ । ते॒ ह स्मावम॒र्शं य॑जन्ते ते पापी॑याꣳस आसुरथ॒ ये ने-