भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 62, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 62

जिरे ते॒ श्रेयाꣳस्त॒ आसुस्ततो॒ऽश्रद्धा मनु॒ष्यान्विवेद॒ ये यज॑न्ते पापी॑याꣳस्ते॒ भव॑न्ति॒ यऽउ॑ न यज॑न्ते॒ श्रेया॑ꣳस॒स्ते भव॑न्तीति॒ तत॒ इतो॑ दे॒वान्ह॒विर्न जगा॑मतः प्र- दाना॒द्धि दे॒वा उप॑जीवन्ति ॥ २४॥ ते ह॒ देवा॑ ऊचुः । बृह॒स्पति॒माङ्गि॑रस॒मश्रद्धा वै॒ मनु॒ष्यानबि॑द॒त्तेभ्यो॑ विधेहि य॒ज्ञमि॑ति॒ स हे॒त्योवा॑च बृह॒स्पति॒राङ्गि॑रसः क॒था न॒ यज्ञधु॒ङ्ङ्इति॒ ते होचुः किंकाम्या यजे॑महि॒ ये यज॑न्ते पापी॑याꣳस॒स्ते भव॑न्ति॒ यऽउ॑ न यज॑न्ते॒ श्रेया॑ꣳस॒स्ते भव॑न्तीति॒ ॥ २५॥ स होवाच । बृह॒स्पति॒राङ्गि॑रसो यद्वै शुश्रुम॒ दे॒वानां॑ परि॒षूतं॒ तदे॒ष य॒ज्ञो भ॑वति॒ यहू॒तानि ह॒वींषि कृ॒ता वेदि॒स्तेनावम॑र्शम- चारिष्ट॒ तस्मात्पापी॑याꣳसोऽभूत॒ तेना॑नवम॒र्शं य॑जध्वं॒ तथा॒ श्रेया॑ꣳसो भविष्यथेत्या क्रिय॑त॒ इत्या ब॒र्हिष स्त॒रणा॒दिति ब॒र्हिषा ह॒ वै खल्वे॑षा शा॒म्यति॒ स यदि॑ पु॒रा ब॒र्हिष स्त॒रणा॒त्किंचि॑दाप॒द्येत ब॒र्हिरेव तत्स्तृण॒न्नपा॑स्ये॒द्य यदा॑ ब॒र्हि स्तृ॒णन्त्य॒पि पदा॒भिति॑ष्ठन्ति॒ स यो॒ हैवं वि॒द्वान॑नवम॒र्शं यज॑ते॒ श्रेया॑न्त्हैव॑ भवति॒ तस्मा॒दनव- म॒र्शमे॑व य॑जेत ॥ २६॥ ब्राह्मणम् ॥ ३ [५.] ॥ अध्यायः ॥ २ ॥ स वै स्रुचः॒ संमा॑ष्टि॑ । तद्यत्स्रुचः॒ संमा॑र्ष्टि॒ यथा॒ वै दे॒वानां॑ चर॒णं तद्वाऽअ॒नु मनु॒ष्याणां तस्माद्यदा॑ मनु॒ष्याणां॑ परिवे॒षणामु॑षक्लृप्तं॒ भव॑ति ॥ १॥ अथ पात्रा॑णि निर्णे॑निजति । तैर्निर्णिक्त्यै परि॑वेवे॒षित्ये॒वं वाऽए॒ष दे॒वानां य॒ज्ञो भ॑वति॒ यद्धूता- नि ह॒वींषि कृ॒ता वेदि॒स्तेषामेतान्येव पात्रा॑णि॒ यत्स्रुचः॑ ॥ २॥ स यत्संमा॑ष्टि॑ । निर्णिक्त्यै॒वैना एतन्निर्णिक्ताभिः प्र॑चरा॒णीति॒ तद्वै द्वये॑नैव दे॒वेभ्यो॒ निर्णे॑निक्त्ये- केन मनु॒ष्येभ्यो॑ऽद्भि॒श्च ब्र॒ह्मणा च दे॒वेभ्य॒ऽआपो हि कुशा ब्रह्म यद्यु॒त्विके॑नैव मनु- ष्येभ्यो॒ऽद्भि॑रे॒वैवन्त्वेतन्नाना भवति ॥ ३॥ अथ स्रुवमाद॑त्ते । तं प्र॒तप॑ति प्र॒त्युष्ट॒ꣳ रक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्त॒ꣳ रक्षो॒ निष्ट॑प्ता॒ अरा॑तय इति वा ॥ ४॥ दे॒वा ह॒ वै य॒ज्ञं तन्वा॒नाः । तेऽसु॑ररक्षसेभ्य आ॒सङ्गा॑द्बिभयांञ्चक्रुस्तद्य॒ज्ञमुख॑मे॒वैतन्नाष्ट्रा रक्षा॑ꣳस्यतो ऽपह॑न्ति ॥ ५॥ स वाऽइ॒त्यग्रैरु॒त्तरतः॒ संमा॑ष्टि॑ । अ॒निशि॑तो॒ऽसि सपत्न॒क्षिदिति॑ य-