शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 634, कुल 699 में से
संदर्भ में पढ़ें६१५ शतपथ ब्राह्मण कुर्याद्य॒थाचमस॒ वाऽअन्य॑ भ॒क्षा अ॑थैषोऽतिरिक्त॒स्तस्मा॑देत॒स्मिन्त्सर्वे॑षामेव भक्ष॑स्त- स्माद्धाना विलिम्प॑न्ते भक्षा॑य ॥१०॥ ता न द॒द्भिः खादेयुः । प॒शवो॒ वाऽए॒ते ने- त्पशून्प्रमृदे॒ करवा॑महा॒ऽइति प्रा॒णैरेव भ॑क्षयन्ति यस्ते॑ऽअश्वस॒निर्भक्षो॒ यो गोस॒- निर्निति॑ पश॒वो ह्ये॑ते तस्मादाह यस्ते॑ऽअश्वस॒निर्भक्षो॒ यो गोस॒निर्निति॒ तस्य॑ त ऽइ॒ष्टयजुष स्तुत॒स्तोम॒स्येतीष्टानि॑ हि य॒जूंषि भव॑न्ति स्तु॒ता स्तोमा॑: शस्तो॒क्थ्य॒- स्येति शस्तानि॒ ह्युक्थानि॒ भव॑न्त्युपहूतस्योपहूतो भक्षयामीत्युपहूतस्य ह्येतद॒- पहूतो भ॑क्षयति ॥ ११॥ ता नाग्नौ प्रकिरेयुः । नेदु॑च्छिष्टम॒ग्नौ जुहु॒वामेत्युत्तरवेद्या- मेव निव॑पन्ति त॒था न ब॒र्हिर्धा य॒ज्ञाद्भव॑न्ति ॥ १२॥ अथ पूर्णपात्रात्स॒मव॑मृशन्ति । ए॒तकेऽप्सुषोमा इत्या॑चक्षते यथा वै युक्तो वहे॒देव॑मेते य॒ऽआत्विज्यं कुर्वन्त्युत वै युक्तः क्षणुते॒ वा वि वा लिशते शान्तिरापो भेषजं तद्यद्देवात्र क्षाण्वते वा वि वा लिश॑न्ते शान्तिरापस्तद्भिः शान्त्या शमयन्ते तदद्भिः संद॑धते तस्मात्पूर्णपात्रात्स- मव॑मृशन्ति ॥१३॥ ते सम॒वमृ॑शन्ति । सं वर्च॑सा॒ पय॑सा॒ सं तनू॑भि॒रग॑न्महि॒ मन॑सा सं शि॒वेन॑ । त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्टु त॒न्वो॒ यद्विलि॑ष्ट॒मिति॒ यद्विवृढं तत्संद॑धते ॥ १४॥ अथ मुखान्युपस्पृशन्ते । द्वयं तद्यस्मान्मुखान्युपस्पृशन्त्य॒मृतं वा ऽआपो॒ऽमृते॑नै॒वैतत्सं॑स्पृशन्त॒ऽएतद् धैवैतत्कर्मात्मन्कुर्व॑ते त॒स्मान्मुखान्युप॑स्पृश- न्ते ॥ १५॥ ब्राह्मणम् ॥५ [४. ३.] ॥ ॥ तानि वाऽए॒तानि॑ । नव॑ समिष्टयजूंषि जुहोति तद्यन्नव समिष्टयजूंषि जु- होति न॒व वाऽअ॒मूर्बहि॑ष्पवमाने स्तो॒त्रिया भव॑न्ति सैषोभयतो॒ न्यूना वि॒राट् प्र॒जननायैतस्माद्वाऽउभयतो॑ न्यूनात्प्र॒जननात्प्रजापतिः प्रजाः ससृज॒ऽइतश्चोर्ध्वा इत- श्चावाचीस्तद्योऽय॒मैष एतस्मादुभयत ए॒व न्यूनात्प्रजननात्प्रजाः सृजत इतश्चोर्ध्वा इतश्चावाचीः ॥ १॥ हिङ्कार स्तोत्रिया॑णां दश॒मः । स्वाहाकार एतेषां तथो हा- स्यैषा न्यूना वि॒राड्दशंदशिनी भवति ॥२॥ अथ यस्मात्समिष्टयजूंषि नाम । या