शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 64, कुल 699 में से
संदर्भ में पढ़ेंथानुप॑रतो॒ यज॑मानस्य स॒पन्ना॒न्निणु॒द्यादि॒वमे॒तदाह॒ वाजि॑नं वा वा॒जिध्ये॑ संमा॒र्ज्मी- ति य॒ज्ञियं॑ वा य॒ज्ञाय॒ संमा॒र्ज्मीत्ये॒वैतदा॒हैतेनैव सर्वाः॒ स्रुचः॒ संमा॑र्ष्टि॒ वाजि॑नीं त्वेति॒ स्रुचं॑ तू॒ष्णीं प्रा॑शित्र॒हरण॑म् ॥६॥ स वाऽइ॒त्यग्रे॒त्तर॑तः॒ संमा॑र्ष्टि॒ति । मूले- र्वा॒ह्यात्तऽइ॑तीव॒ वाऽअ॒यं प्राण॒ इती॒वोदा॑नः प्राणोदा॒नावे॒वैतद्द॑धाति॒ तस्मा॒दिती- वे॒मानि॒ लोमा॑नीतीवे॒मानि॑ ॥७॥ स वै॒ संमृ॑ज्य-संमृज्य॒ प्रत॑प्य-प्रतप्य॒ प्रय॑च्छति । य॒- थावम॒र्शं निर्णि॑ज्यानवमर्शमुत्त॒मं परि॑क्षाल॒येदे॒वं तत्त्स्मात्प्रत॑प्य-प्रतप्य॒ प्रय॑च्छति ॥८॥ स वै स्रुव॑मे॒वाग्रे॒ संमा॑र्ष्टि । अथे॒तराः॒ स्रुचो॒ योषा॒ वै स्रुग्वृषा॑ स्रुव॒स्तस्मा॒- द्यद्यपि॑ ब॒हूव्य॒-इव॒ स्त्रियः॑ सा॒र्धं यन्ति॒ य ए॒व तास्वपि॑ कुमा॒रक॒-इव॒ पुमांन्भव॑ति स ए॒व तत्र॒ प्रथ॑म॒ एत्य॒नूच्य॑ इत॒रास्तस्मा॑त्स्रुव॑मे॒वाग्रे॒ संमा॒र्ष्ट्यथे॒तराः॒ स्रुचः॑ ॥९॥ स वै तथै॑व संमृ॑ज्यात् । प॒त्राणि॑ नाभि॒व्युन्जे॒द्यथा॒ यस्मा॒ऽअश॑नमा॒हरि॒ष्यन्त्स्यात्तं॑ पा- त्रं॒निर्णेनि॑जेन्नाभि॒व्युन्जे॒देवं॒ तत्त्स्मा॒ड् तथै॑व॒ संमृ॒ज्याद्य॒त्राणि॑ नाभि॒व्युन्जे॒त्प्राङि॑वै॒वो- त्क्रम्य॑ ॥१०॥ तद्धैके॑ । स्रुक्सं॑मा॒र्जना॑न्य॒न्वाग्र॒मभ्याद॑धति वेदस्या॒ह्वाभूव॒न्त्स्रुच॑ ए॒भिः सम॒मार्जि॑षुरि॒दं वै किंचि॒द्यज्ञस्य॒ नेदि॒दं ब॒हिर्धा य॒ज्ञाद्भव॒दिति॒ तदु॒ तथा॒ न कु॒र्या- द्यथा॒ यस्मा॒ऽअश॑नमा॒हरे॑त्तं॒ पात्रं॒निर्णेनि॑जनं पार्यये॒देवं तत्त्स्मा॑डु॒ परा॒स्ये॒वैता॑नि ॥११॥ अथ॒ पत्नीं॒ संन॑ह्यति । ज॒घना॒र्धो वाऽए॒ष य॒ज्ञस्य॒ यत्पत्नी॒ प्राङ्मै॑ य॒ज्ञस्ता॒- यमानो॑ या॒द्विति॒ युनक्त्ये॒वैना॑मे॒तद्युक्ता॑ मे य॒ज्ञम॒न्वासा॒ताऽइ॑ति ॥१२॥ योक्त्रे॑ण॒ सं- नह्य॑ति । योक्त्रे॑ण॒ हि यो॒ग्यं यु॒ञ्जन्त्य॑स्ति॒ वै पत्न्या॒ अमे॑ध्यं॒ यद॒वाची॑नं नाभे॒रैत- द्वा॒यमवे॑क्षिष्यमाणा॒ भव॑ति॒ तद्देवा॑स्या ए॒तद्योक्त्रे॒णार्त्ति॑र्दधात्यथ॒ मेध्ये॑नै॒वोत्त॑रार्धेना- ऽम्यवे॑क्षते॒ तस्मा॒त्पत्नीं॒ संन॑ह्यति ॥१३॥ स वाऽअ॒भिवासः॒ संन॑ह्यति । ओष॑- धयो॒ वै वासो॒ वरु॑ण्या र॒ज्जुस्तदोष॑धीरे॒वैतद॒न्तर्द॑धाति॒ तयो॒ हैन॑मेषा॒ वरु॑ण्या र॒ज्जुर्न॑ हिनस्ति॒ तस्मा॑दभिवासः॒ संन॑ह्यति ॥१४॥ स संन॑ह्यति । अदि॑त्यै रास्ना॒- सीती॒यं वै पृथि॒व्यदि॑तिः॒ सेयं दे॒वानां॒ पत्न्ये॒षा वाऽए॒तस्य॒ पत्नी॑ भवति॒ तद॑स्या