भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 70, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 70

त्ये॑वमु॒ ह्नैते॑षाम् ॥ ६॥ अथ॒ या॒न्या॒न्यानि॑ गृ॒ह्यन्ते॑ । ऋ॒तुभ्य॑श्चैव॒ तानि॒ छन्दो॑भ्यश्च गृ॒ह्यन्ते॒ तत्तद॒नादिश्या॒ऽन्यस्ये॑व रू॒पेण॑ गृह्णाति स वै चतुर्जुह्वां गृह्णात्य॒ष्टौ कृत्व॒ उप- भृति॑ ॥ ७॥ स यच्चतुर्जुह्वां गृ॒ह्णाति॑ । ऋ॒तुभ्य॑स्तद्गृह्णाति प्रया॒जेभ्यो॒ हि तद्गृह्णात्यृत॑- वो॒ हि प्रया॒जास्तत्तद॒नादिश्या॒ऽन्यस्ये॑व रू॒पेण॑ गृह्णात्य॒जामितायै॒ जामि॑ ह कुर्याद्य- द्वस॒न्ताय॑ वा ग्री॒ष्माय॑ वेति॑ गृह्णीया॒त्तस्माद॒नादिश्या॒ऽन्यस्ये॑व रू॒पेण॑ गृह्णाति ॥ ८॥ अथ॒ यद॒ष्टौ कृत्व॒ उपभृति॑ गृ॒ह्णाति॑ । छन्दो॑भ्यस्तद्गृह्णात्यनुया॒जेभ्यो॒ हि तद्गृह्णाति छन्दाँ॑सि॒ ह्य॑नुया॒जास्तत्तद॒नादिश्या॒ऽन्यस्ये॑व रू॒पेण॑ गृह्णात्य॒जामितायै॒ जामि॑ ह कु- र्याद्यद्गायत्र्यै॑ वा त्रि॒ष्टुभे॑ वेति॑ गृह्णीया॒त्तस्माद॒नादिश्या॒ऽन्यस्ये॑व रू॒पेण॑ गृह्णाति ॥ ९॥ अथ॒ यच्च॑तुर्ध्रुवायां॑ गृह्णाति॑ । सर्व॑स्मै॒ तद्य॒ज्ञाय॑ गृह्णाति॒ तत्तद॒नादिश्या॒ऽन्यस्ये॑व रू- पेण॑ गृह्णाति कस्मा॒ऽऽ व्यादिशेद्य॒तः सर्वा॑भ्य ए॒व दे॒वता॑भ्यो॒ऽवद्य॑ति॒ तस्माद॒ना- दिश्या॒ऽन्यस्ये॑व रू॒पेण॑ गृह्णाति ॥ १०॥ य॒जमान॒ एव जु॒हूमनु॑ । यो॒ऽस्माऽअ॑रातीय॑ति स उप॒भृत॑मन्वे॑तद्य॒द्ये॒व जु॒हूमन्वा॒द्य उप॒भृत॑मन्वे॒व जु॒ह्वाम॒थोप॒भृत्स वै चतुर्जुह्वां गृह्णात्य॒ष्टौ कृत्व॒ उपभृति॑ ॥ ११॥ स यच्चतुर्जुह्वां गृ॒ह्णाति॑ । अ॒त्तार॑मे॒वैतत्परि॑मिततरं कनीया॑ꣳसं करोत्यथ॒ यद॒ष्टौ कृत्व॒ उपभृति॑ गृह्णात्या॒द्यमे॒वैतद॑परि॑मिततरं॒ भूया॑ꣳसं करोति॒ तद्धि समृ॑द्धं॒ यत्रात्ता कनी॑याना॒द्यो भूयान् ॥ १२॥ स वै चतुर्जुह्वां गृह्न् । भूय॒ आज्यं॑ गृह्णात्य॒ष्टौ कृत्व॒ उपभृति॑ गृह्णन्कनीय॒ आज्यं॑ गृह्णाति ॥ १३॥ स यच्च- तुर्जुह्वां गृह्न् । भूय॒ आज्यं॑ गृह्णात्य॒त्तार॑मे॒वैतत्परि॑मिततरं कनीया॑ꣳसं कुर्वꣳस्तस्मि॒- न्वी॒र्यं॒ बलं॑ दधात्यथ॒ यद॒ष्टौ कृत्व॒ उपभृति॑ गृह्णन्कनीय॒ आज्यं॑ गृह्णात्या॒द्यमे॒वैतद॑- परि॑मिततरं॒ भूया॑ꣳसं कुर्वꣳस्तमवीर्यमब॑लीयाꣳसं करोति॒ तस्माड्त॒ राज्ञापारां विशं॑ प्रावसायाण्ये॒कवेश्म॑नेव जिनाति॒ यद्यथा वत्कामय॑ते॒ तथा सचतऽए॒तेनो॑ ह तद्वी- र्येण॒ यज्जुह्वां॒ भूय॒ आज्यं॑ गृह्णाति॒ स यज्जुह्वां गृह्णाति जु॒ह्वैव तज्जुहोति॒ यदुपभृति॑ गृह्णाति जु॒ह्वैव तज्जुहोति ॥ १४॥ तदाहुः॑ । कस्मा॒ऽऽ तर्ह्यु॑पभृ॒ति गृ॒हीयाद्यदुप-