शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 86, कुल 699 में से
संदर्भ में पढ़ें६८ शतपथ ब्राह्मण ॥४॥ य॒द्ध्येवेति॑ च प्रेति॑ चान्वा॒ह । प्रेति॒ वै प्रा॒ण ऽत्युदा॒नः प्रा॒णोदा॒नावे॒वैत॒द्द- धाति॒ तस्मा॑द्द्वा॒ऽइति॑ च प्रेति॑ चान्वा॒ह ॥५॥ य॒द्ध्येवेति॑ च प्रेति॑ चान्वा॒ह । प्रेति॑ वै रेतः॑ सिच्यत॒ऽइति॑ प्र॒जाय॑ते॒ प्रेति॑ प॒शवो॒ विति॑ष्ठन्त॒ऽइति॑ समा॒वर्त॑न्ते॒ सर्वं॒ वा ऽइ॒दमेति॑ च प्रेति॑ च॒ तस्मा॑द्द्वा॒ऽइति॑ च॒ प्रेति॑ चान्वा॒ह ॥६॥ सो॒ऽन्वाह॑ । प्र वो॑ वाजा॑ अभि॒द्यव॒ इति॒ तन्नु॒ प्रेति॑ भवत्य॒ग्नऽआया॑हि वी॒तय॒ऽइति॒ तद्ध्येति॑ भवति ॥७॥ तदु॒ हैक॒ऽआहुः॑ । उ॒भयं॒ वाऽए॒तत्प्रेति॑ संपद्यत॒ऽइति॒ तदु॒ तदा॑ति॒विज्ञा॒न्य- मिव॒ प्र वो॑ वा॒जा अ॑भि॒द्यव॒ऽइति॒ तन्नु॒ प्रेत्य॒ग्नऽआया॑हि वी॒तय॒ऽइति॒ तद्ध्येति॑ ॥८॥ सो॒ऽन्वाह॑ । प्र वो॑ वाजा॑ अभि॒द्यव॒ इति॒ तन्नु॒ प्रेति॑ भवति॒ वाजा॒ इत्यन्नं॒ वै वा- जा॒ अन्न॑मे॒वैतद॒भ्यनू॒क्तम॑भि॒द्यव॒ इत्य॑र्धमासा॒ वाऽअ॑भि॒द्यवो॒ऽर्धमा॒साने॒वैतद॒भ्यनू॒क्तꣳ ह॒विष्म॑न्त॒ इति॑ प॒शवो॒ वै ह॒विष्म॑न्तः प॒शूने॒वैतद॒भ्यनू॒क्तम् ॥१॥ घृ॒ताच्या॒इति॑ । वि॒- देघो॑ ह॒ माथ॒वोऽग्निं वै॑श्वान॒रं मुखे॑ बभार॒ तस्य॒ गोत॑मो राहू॒गण॒ ऋषिः॑ पुरो- हित॑ आस॒ तस्मै॑ ह॒ स्मामन्त्र्य॑माणो न॒ प्रति॑शृणोति॒ नेन्मे॒ऽग्निर्वे॑श्वान॒रो मु॒खान्नि- ष्पद्याता॒ऽइति॑ ॥१०॥ तमृ॒ग्भिर्ह्वयि॑तुं दध्रे । वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्तꣳ॑ स॒मिधी- महि॑ । अग्ने॑ बृ॒हन्त॑मध्व॒रे वि॒देधेति॑ ॥११॥ स न प्रति॑शुश्राव । उद॑ग्ने॒ शुच॑यस्तव॒ शुक्रा भ्रजि॑न्त॒ ईर॑ते । तव॒ ज्योतिꣳ॒ष्यर्चयो॒ विदे॒धाऽइति॑ ॥१२॥ स ह॒ नैव प्रति॑- शुश्राव । तं त्वा॑ घृ॒तस्नवीमहे॒ऽइत्ये॒वाभि॒व्याह॑र॒दथा॑स्य घृ॒तकी॑र्त्तावेवा॒ग्निर्वे॑श्वान॒रो मुखा॒दुज्ज॑ज्वाल॒ तं न॑ शशाक धार॒यितुꣳ॒ सो॒ऽस्य मु॒खान्निष्पे॑दे॒ स इ॒मां पृ॑थि॒वीं प्रापा॑दः ॥१३॥ तर्हि॑ वि॒देघो माथ॒व आस॑ । स॒रस्व॑त्याꣳ स तत॑ ए॒व प्राङ॒द्दह॑न्न- भीयाये॒मां पृ॑थि॒वीं तं गोत॑मश्च राहू॒गणो॑ वि॒देघश्च॑ माथ॒वः प॒श्चाद्दह॑न्त॒मन्वी॑यतुः स इ॒माः सर्वा॑ नदी॒रति॑ददाह स॒दानी॑रेत्युत्त॒राद्गिरेर्निर्धाव॑ति॒ ताꣳ॒ हैव॒ नाति॑ददाह ताꣳ ह॒ स्म तां पु॒