शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 88, कुल 699 में से
संदर्भ में पढ़ेंना वैश्वानरे॒णेति॑ ॥ १५॥ तद्ध॒ हैतर्हि॑ । क्षेत्र॒तरमिव ब्राह्मणा उ हि॑ नून॒मेनम॑- ज्ञैर॒सिषदं॒त्सापि॑ ज॒घन्ये॑ नैदा॒घे स॒मिवा॑ कोपयति ताव॒हीतानति॑दग्धा ह्य॒ग्निना॑ वैश्वान॒रेण॑ ॥ १६॥ स॒ होवा॑च । विदे॒घो माथ॒वः क्वाहं॑ भवानी॒त्यत॑ ए॒व ते प्रा- चीने॒ भुव॑न॒मिति॒ होवा॑च॒ सैषार्ये॒तर्हि॑ कोसलविदे॒हानां॑ मर्यादा ते हि माथ॒वाः॑ ॥ १७॥ अथ॒ होवा॑च । गौत॑मो राहू॒गणः॑ क॒थं नु म॒ऽआम॒न्त्र्यमा॑णो न॒ प्रत्य॒श्रौ- षीरि॒ति स॒ होवाचा॒ग्निर्मे॑ वैश्वान॒रो मुखे॒ऽभूत्स नेन्मे॒ मुखान्नि॒ष्पद्या॑तै॒ तस्मा॑त्ते॒ न प्रत्य॒श्रौष॒मिति॑ ॥ १८॥ तद्ध॒ कथम॑भू॒दिति॑ । यत्रै॒व त्वं घृ॒तस्म॑वी॒मक्व॒ऽइत्य॒भिव्याहा॑- र्षी॒स्तदे॒व मे॑ घृतकी॒र्त्ताव॒ग्निर्वैश्वान॒रो मुखा॒दुद॑ज्वाली॒त्तं ना॑शकं धारयि॒तुं स मे॑ मुखा॒न्निष्व॑पादी॒ति ॥ १९॥ स य॑त्सामिधे॒नीषु॑ घृ॒तव॑त् । सामिधे॒नमेव॒ तत्स॒मैवेनं॑ तेनै॒न्धे वी॒र्य्यम॑वास्मिन्दधाति ॥ २०॥ तद्ध॑ घृ॒ताचेति॑ । दे॒वाञ्जि॑गाति सु॒म्नयुरिति॑ यज॑मानो॒ वै सु॑म्न॒युः स हि दे॒वाञ्जि॑गीषति॒ स हि दे॒वाञ्जि॑घा॒ꣳसति॒ तस्मा॑दाह दे॒वाञ्जि॑गाति सु॒म्नयुरिति॑ सै॒षाग्रेयी स॒त्यनि॑रुक्ता॒ सर्व्वं॒ वाऽअ॒ग्निरु॒क्तꣳ सर्व्वे॑णैवैत- त्प्रति॑पद्यते ॥ २१॥ अग्न॒ऽआया॑हि वी॒तय॒ऽइति॑ । तदे॑ति भवति वी॒तय॒ऽइति॑ स॒- मत्क्रमिव ह वा॒ऽइमे॒ऽग्रे लो॒का आ॑सुरित्युन्मृ॒श्या हैव द्यौरा॑स ॥ २२॥ ते दे॒वा अ॑कामयन्त । क॒थं नु न इ॒मे लो॒का वित॑रा॒ꣳ स्युः क॒थं न इ॒दं वरी॑य॒ऽइव स्या- दिति॒ तानि॑तेरे॒व त्रि॒भिर॒क्षरै॒र्व्यन॑यन्वी॒तय॒ऽइति॒ तऽइ॒मे वित॑रं लो॒कास्ततो दे॒वे- भ्यो॒ वरी॑योऽभव॒द्वरी॑यो ह वा॒ऽअस्य॑ भवति॒ यस्यै॒वं वि॒दुष॑ ए॒तामन्वा॒हुर्व्वीत॑य॒- ऽइति॑ ॥ २३॥ गृ॒णानो॑ ह॒व्यदात॑य॒ऽइति॑ । यज॑मानो॒ वै ह॒व्यदा॑तिर्गृणानो यजमा॑- नाये॒त्यैवैत॑दाह॒ नि होता॑ सत्सि ब॒र्हिषीत्य॒ग्निर्वै होता॑यं लो॒को ब॒र्हिर॒स्मिन्नेवै- तल्लो॒केऽग्निं॑ दधाति॒ सो॒ऽयम॒स्मिँल्लो॒केऽग्नि॒र्हितः॑ सैषेममे॒व लो॒कम॒भ्यनू॒क्तेममे॒वैत॑- या लो॒कं जय॑ति॒ यस्यै॒वं वि॒दुष॑ ए॒तामन्वा॒हुः ॥ २४॥ तं त्वा॑ स॒मिद्भि॑र॒ङ्गिर॒ इति॑ । स॒मिद्धि॑र्व्वे॒तम॒ङ्गिरस॒ ऐन्ध॒ताङ्गिर॒ इत्या॒ङ्गिरा उ॒ ह्यग्नि॑र्वृतेन वर्धयामसीति॒ तत्सामि-