शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 113, कुल 188 में से
संदर्भ में पढ़ें६६ शिवदृष्टिः [ आ०-३ सर्वस्य शिवत्वे बन्धमोक्षाभावात् शिवोऽहमिति सर्वस्यैव किमिति ज्ञानं न भवतीति। अत्राप्युच्यते-यथा सैवैषा विमोहिता, एवं-- 'अज्ञानलक्षणा सा च संसारो बन्ध उच्यते' इति स्थितावज्ञानरूपौ बन्धमोक्षौ ॥ ६६ ॥ विभिन्नशिवपक्षे १ तु सत्ये दार्ढ्यं २ परत्र नो। प्रतीतिमात्रमेवात्र तावता बन्धमोक्षता ॥ ७० ॥ यदा तु सर्व एव भावाः कर्तृत्वादेच्छादिशक्तियोगात् प्रत्येकं शिवरूपा इति पक्षः, तदा तत्र विभिन्नशिवपक्षे सत्ये यथा स्थितस्यार्थभेदस्य दार्ढ्यम्। यदा त्वेकशिवत्वमेव तत्त्वं तदा तस्मिन् पक्षे न दार्ढ्यं भेदस्य, अपि तु शिवाभेदप्रतीतिमात्रं मोक्षस्तदप्रतीतिस्तु ३ बन्ध इति तावता प्रतीतिमात्रेण, न तु वस्त्वन्यथात्वे बन्धमोक्षयोर्बन्धमोक्षता ॥ ७० ॥ बन्धमोक्षयोरभेद इति पक्षे समर्थयति ईदृग्विज्ञानं सर्वस्य कस्मात् न भव- तीति, शिवोऽहमिति सर्वस्यैव प्रतीतावस्त्वेव बन्धमोक्षाभाव इति पृष्टे सिद्धान्तवादी एनमेव पक्षं तदुक्तिदोषोद्भावनपूर्वमर्धोक्तयैवोत्तरपक्षेण समर्थयति--यथा 'विज्ञानमेतत्सर्वस्य कस्मान्न स्याद्विमोहिता।' अय- म्भावः--यत्सर्वस्य शिवोहमिति भेदज्ञानं सैव विमोहिताज्ञानलक्षणो भ्रमः, तथा च बन्धनिरासार्थं मोक्ष एव ॥ १ ननु किमिदं भवद्भिरपूर्वदोषारोपणं क्रियते-- 'विज्ञानमीदृक्सर्वस्य कस्मान्न स्याद्विमोहिता।' इति। सर्वस्याहमित्यखण्डपरिपूर्णाहन्तापरामर्शे विमोहिता क्वान्यत्रा- विमोहित्वं स्यादित्यस्यैव तात्पर्यं तावद्विवेचयति विभिन्नेति। इदमत्र तात्पर्य- यदि सर्वस्येत्यत्र भिन्नापेक्षया सर्वनामनिर्देशस्तर्हि भेदेनानेकत्वेऽर्थभेदोऽ- स्त्येव तदपेक्षया मोक्षः इति बन्धमोक्षव्यवस्था स्थितैव। अथ सर्वशब्दो न भिन्नप्रमात्रपेक्षया किंतु सर्वस्यैकमेव विज्ञानात्मकमभेदसारमहमिति विमर्शनं तच्छिवाभेदप्रत्यवमर्शस्य मोक्षप्रतीत्या बन्धस्याप्यनुषङ्गोऽस्त्ये- वेति सिद्धं समीहितमस्माकं, परमार्थतो वस्तुवृत्त्या न किंचनापि बन्धमोक्ष- व्यपदेशः प्रतीतिमात्रेणास्तीति ॥ २ परमार्थभेदेऽर्थभेदस्यैव दार्ढ्यं भेद- दार्ढ्यं। परत्र एकत्वपक्षे। ३ तदयमर्थः--प्रतीतप्रतीतिभ्यां मोक्षबन्ध- व्यवस्थाया व्यवस्थितत्वाद्यदुक्तं नास्तिता 'बन्धमोक्षयोः' इति, तदसिद्धं।