शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 122, कुल 188 में से
संदर्भ में पढ़ेंआ०-३ ] उत्पलदेवकृतवृत्त्योपेता १०५ उपलादेर्जडत्वेऽपि¹ शिवत्वं ते कथं स्थितम् ॥ ९१ ॥ यथा न तत्र जडता तथाग्रे प्रविचार्यते । अथ जडत्वेऽप्युपलादेः शिवत्वोपगमात् जडतासञ्जनम्² । कोऽयं दोषः, नत्वयं दोष एव³ । यथा नोपलादेर्जडता, तथाग्रे समीप एक प्रकर्षेण विचार्यते⁴-इत्ययमेकः पूर्वोक्तप्रकारो⁵ वितत्य कथितः ॥ सफलायां समाप्तायां क्रियायां समनन्तरम् ॥ ९२ ॥ क्रियान्तरेच्छासंभूतिस्तन्निमित्तमनन्तता । यतोऽस्ति शिवशक्तीनां ताश्च नित्यमवस्थिताः ॥ ९३ ॥ सरन्त्येव स्वभावेन तत्सरत्प्रकृतिः शिवः । अथवा स्थूलायां क्रियायां सफलायां समाप्तायां, तदनन्तरमेव सफले क्रियान्तरे इच्छासंभवो यावदपर्यवसानं, तत्र निमित्तभूता अनन्तता यतोऽस्ति, शिवशक्तीनाम्। शिवशक्तयश्च नित्यमवस्थिताः सरन्त्येव स्वभावतः। ताश्च शक्तयः प्रसरन्त्यो यतः, तत् सरन्ती प्रकृतिर्यस्य स तथाभूतः शिवः तथा- भूतलक्षणत्वात्तस्य । यथोक्तम्- 'अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः ।' ( स्प० ४।५ ) इति । इति द्वितीयः⁶ प्रकारो वितत्योक्तः ॥ अथवाह- ईश्वरस्य⁷ स्वतन्त्रस्य केनेच्छा वा विकल्प्यते ॥ ९४ ॥ १ ननु चाहमित्यविकल्पकं पश्यन्निति किमुच्यते, यतः सर्वमेवो- पलादिकं जडमेव, तत्र जडत्वादेवाप्रकाशता, अप्रकाशे तु कथमह- मित्यविकल्पमेव परामर्शः संभवति । न केवलमियदेव । तस्यापि शिवत्वे शिवोऽपि तथा जड एव प्रसज्येत । भेदे तूपलादिकं जडमस्तु चेतनं वास्तु, न काचन भवदभ्युपगतशिवत्वहानिरित्यत आहोपलादेरिति । अत्र शिवत्वं ते कथं स्थितमित्येव साध्यं, न तु जडे शिवत्वं कथमिति । तस्य तूपला- देर्भवतामपि जडत्वमेवोपगतमिति । २ शिवतत्त्वस्य । ३ एवकारेणा- श्रोषलादेरा जडतासंभावना निरस्ता, तेन शिवत्वे जडता दूरापास्तैव सिद्धा। ४ अर्थलभ्यत्वादत्र शिवत्वं पुनर्न समर्थितमिति बोध्यम् । ५ तावन्मात्र- स्थितावित्यर्थः । ६ परापराख्यशक्तिप्रसर इत्यर्थः । ७ यदुक्तं दूषणोद्युक्त- बुद्धिभिः परमार्थान्वेषणकुण्ठैः पूर्वपक्षिभिः विशिष्टेच्छावशादभीष्टेयज्जग-