शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 124, कुल 188 में से
संदर्भ में पढ़ेंआ०-३ ] उत्पलदेवकृतवृत्त्योपेता १०७ तथाहि— एकस्मिन्नेव¹ देहे तु विभेदात्परमाणुगात्² ॥ ९६ ॥ एकत्वाच्छिद्वरूपस्य दोषोऽयं भेदवादिनाम् । एकस्मिन्नेव देहे यावन्तः परमाणवस्तावन्तः शिवा इत्येवं परमाणु- गादपि विभेदाद्विभेदः स्यादित्यानन्त्यप्रतिपादनमित्येषोऽपि न दोषः, ये बहवः परमाणवादिपदार्थास्त एकशिवरूपा इति कथं बहुत्वम् । न हि शिवो घटादिरूपः, अपि तु घटादिः शिवरूपः । ततश्चिद्रूपस्य देशकालस्वभाव- भेदाभावान्न भेदः । एतदीश्वरप्रत्यभिज्ञायां प्रदर्शितम् । यैः³ पुनरणुभेदवादो गृहीतस्तेषां चाणूनां स्वभावान्छिद्वता । सा च मलावृता । ततस्तेषामत्रोक्त- ज्ञानवशाद्यदि शिवत्वव्यक्तिस्ततो भिन्नाः शिवाः । ते च देहस्थास्तन्मयत्वे चाणूनां देहपरमाणव एव किमिति शिवाणवो न भवन्तीति भिन्नपरमाणुवादो न चित्तत्त्वस्य, ततस्तेषामेवायं दोषः ॥ १ अत्रैके—'यद्यत्किंचन प्रतिभाति, तत्तत्सर्वं शिवः' इति विलोमव्याप्तिं विदधते । तथाहि यद्यदिति अनेकं नानाविधं भिन्नं भिन्नमर्थजातं, तत्तत्सर्वं शिव एवेति यद्यपि शिवाद्धयमेव, तथापि तेषां बहुत्वानिङ्गत्वान्द्बहूनि भिन्नानि शिवान्यपि संभवन्तीति तत् दूषयति एकस्मिन्निति । २ विभेदात्परमाणुगादित्यत्र द्विधा गतिः । न्यायबाहुल्यं चान्यत्र । अत्र तावदेके ब्रुवन्ति—यथा प्रतीयतेऽयं बाह्यो निराकारेण साकारेण वा ज्ञानेन नैकानेकरूपतया सावयवः, तथा अयुक्तः एकत्वानेकत्वयोः परस्परपरिहारेणावस्थानादेकाश्रयत्वायोगात् । तस्मा- न्निरवयव एक एवावयवी बाह्यो देवदत्तप्रतीतिविषयः, अवयवास्तु पृथ- क्प्रतीत्या हस्तः पाद इति पृथग्भूताः प्रतीयन्ते, न त्वेकत्वानेकत्वयोरनेका- श्रयतेति अवयववादिन आहुः । ३ अत्राहुरपरे—तदेतदयुक्तं हस्ते चलति चलतो देवदत्तस्य, पादादिषु वा चलत्सु चलतश्चलत्वाचलत्वलक्षणविरुद्ध- धर्मयोगः स्यादेकस्य । न चैतद्युक्तं तावन्मात्रलक्षणत्वादनेकत्वस्य । प्रत्यवयवं च सर्वात्मना युगपत्समवेतेऽनेकत्वं स्यात् एकावयवापाये च नाशः स्यात् । अवयवान्तरावस्थानादनष्टस्यापि पर्यायेणैकावयवापायाविनाशिनः सर्वावयवापायेऽपि अविनाशः स्यात्, तस्मात्परमाणव एव निरवयवाः संचिता इति परमाणुसंचयवादिनः ।