शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 127, कुल 188 में से
संदर्भ में पढ़ें११० शिवदृष्टिः [ आ०-४ अथेदानों¹ प्रवक्तव्यं यथा सर्वं शिवात्मकम् । नाशक्तो विद्यते कश्चिच्छक्तं वस्त्वेव तेऽपि नो ॥ १ ॥ इष्यन्ते बहवः शक्ता सर्वस्वातन्त्र्यमापतेत् । दूषणनिराकरणादनन्तरं विधिमुखेनैव² संप्रति तद्वक्तव्यमस्माभिः तथा सर्वं शिवात्मकं सिद्धयति तदुच्यते । अशक्तश्चार्थक्रियायां विद्यते च,- इत्येतावन्नास्ति प्रख्योपाख्याकरणेन³ तावद्व्यभिचारात् । शक्तं⁴ चेत्, तद्वस्त्वेव परमार्थसदेव शिवरूपमिति । तथाहि क्रियाकरणशक्तिः कर्तृता चिद्रूपता शिवरूपत्वमपि चिद्रूपस्येच्छारहितस्य⁵ कर्तृत्वायोगात् । घटपटा- दिकं⁶ करणशक्तं चेत्, तत् स्वतन्त्रं चिद्रूपं शिवरूपमेवेति । बहवश्च⁷ घटा- दयः प्रत्येकं शक्ता नेष्यन्ते, सर्वेषां तथा स्वातन्त्र्यं प्रसज्यते⁸ । ततश्च १ अस्याचार्यस्य सर्वथा प्रनीतौ विशिष्टत्वात्सर्वथा यदत्राह्निके प्रतिपादनीयं, तद्बीजाक्षरमाहाथेति । तथाहि— 'अकारः शिव इत्युक्तस्त्यकारः शक्तिरुच्यते ।' इति रहस्यनयेनात्र सर्वशिवत्वं मुख्यतः प्रतिपादनीयं, तत्रापि तत्सर्वशिवत्वं शक्त्यैव समर्थनीयमित्यकारथकाराभ्यां शिवशक्तिव्यपदेशोऽत्र कृतः । तथेदानीमित्यप्येतादृगभिप्रायार्थमेव सूचितं, तत्तु विस्तरभयान्नेह विविच्यते । २ ननु परवादनिरकरणेनैव सर्वं गत्यन्तराभावाच्छिवात्मकं सिद्धयतीति किं पुनरुक्त्या, तत्राह विधिमुखेनेति । पूर्वं तु सर्वनिराकरणेनैव समर्थितमपि निषेधमुखेनैव साधितमित्यर्थः । ३ विद्यते यदि, तर्ह्यर्थक्रिया- यामशक्त इति किमेतत्, यत्र यत्र हि सत्त्वं, तत्र तत्र शक्तत्वमर्थक्रिया- कारित्वमित्यर्थः । तदेवाह—प्रख्येति प्रख्या सत्त्वमिति । ४ शक्तत्वाभ्यु- पगमे च किमित्यत आह शक्तमिति । ५ इच्छारहितं चिद्रूपं न किंचित्कस्य स्वरूपाभ्युपगमरूपत्वादितीच्छासहितं चिद्रूपं शिवरूपं कर्तृत्वम् । ६ अत्रापि पूर्ववन्न्यायः यतो घटपटादिकं करणशक्तं, ततश्च चिद्रूपं चिद्रूपस्येच्छा- रहितस्य कर्तृत्वायोगादिच्छासहितं स्वतन्त्रं शिवरूपमेवेत्यर्थः । अत्र जडत्व- मेषामाशङ्क्य न्यायमाह बहव इति । ७ ननु जडचेतनव्यवस्थायां मेतत्सिद्ध्यति, एषां हि पराधीनत्वमेव स्फुटं भाति, एषां स्वतन्त्रचिद्रूपत्वेऽ- नन्याधीनत्वात्, सर्वे स्वात्मनि स्वतन्त्रा इति किमस्याधीनमिरत व्यवस्था नश्येदित्यत आह बहवश्चेति । ८ यदि च प्रत्येकं घटादौ स्वातन्त्र्यं स्वयमभि- ष्यते एकप्रमात्रनधीनत्वाद्विद्रुन्नभिन्न एवाभिसंधिः सर्वत्र प्रसज्यते, तथा