शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 145, कुल 188 में से
संदर्भ में पढ़ें१२८ शिवदृष्टिः [ आ०-४ स्वयं चासत्त्वाद्घटादिः कथं जायेत जननकर्ता¹ कथं स्यात् यदा, तदा केन सामर्थ्येनान्येनापि कुम्भकारादिना कथमसत्² जन्मयोग्यता- लक्षणस्वभावरहितं शशशृङ्गादविशिष्टं जन्येत । जनयिता यद्यपि सन्, तथापि तत्सत्ता³ जन्यस्य न काचिद्भवति व्यतिरिक्तत्वात्, ततस्तयापि⁴ न तस्य योग्यतापत्तिः । एवं सा⁵ जन्मयोग्यतायां व्याप्रियेत यदि तया तस्य जन्मिता युज्येत यदि⁶ जनयिता कर्ता सहकारिणश्च करणादिरूपा जन्यात्मकाः स्युः । व्यतिरिक्तैस्तु सद्भीरूप्यसतः कथं जन्मिता भवेत् ॥ ४८ ॥ जन्मकाले⁷ घटाभावात्संबन्धो नैव कारकैः ॥ ४९ ॥ नासंबद्धस्य करणं सत्कार्याच्चेत्स विद्यते । सन्नप्यसावसंवेद्यो व्यञ्जकस्याप्यभावतः ॥ ५० ॥ तस्मात्स्वयं स्वभावेन भावैर्भावी भवेद्भवः । घटस्य जन्यस्य जन्मारम्भकालेऽभावात्कुम्भकारमृत्पिण्डादिभिर्न संबन्धः । न च अविद्यमानसंबन्धस्य करणं पूर्वमपि⁸ अन्यतोऽपि वा प्रसङ्गात् । जन्यासंबन्धेऽपि⁹ तदपेक्षयैव जनकानामेव स सामर्थ्यस्य विशेषो येन¹⁰ तेषु तस्य विशिष्टस्यैव सत्ता, न तु यस्य कस्यचिदित्येषोऽ- सत्कार्यवादः ईश्वरप्रत्यभिज्ञादौ निराकृतः । अथ स विद्यते संबन्धः सतः¹¹ १ भवन्मतमेतदित्यर्थः । २ जन्मयोग्यतालक्षणस्वभावरहितं च शशशृङ्गमसदित्युच्यते । ततश्च तस्य न केनापि जननं युक्तम् । तथा यद्यदसत्सर्वं तत्तत् तथैवेति कथं जन्मासतोऽपि संभवेदित्यर्थः । ३ जन- यितृसत्ता । जन्यस्य असत इति शेषः । ४ जनयितृसत्तया, तस्य जन्यस्य, योग्यतापत्तिः सत्त्वयोग्यता । ५ जनयितृसत्ता । ६ युज्येतेत्युक्तं, तामेवोप- पत्तिमाह यदीति । ७ ननु च तदेव विवेच्यं यत्समन्तरं जन्यकार्योत्पत्तिः । पूर्वं तु कुम्भकारसंविदि बीजे वा परमेश्वरप्रकाशे वा सत्कार्यमस्तु भवता- मस्मन्मते वासव्, न तत्र व्यर्थं ग्रहः । यस्तु जन्मारम्भकालस्तत्र क्रियमाण- त्वादेव सदसत्त्वसंशय इति स एव सम्यग्विवेच्य इत्यपि समर्थयितुमाह जन्मकाल इति । ८ कुम्भकारादिसंबन्धात्प्राक् अन्यतोऽनियतमेव । ९ इदानीं पूर्वं सत एव सर्वक्रियासंबन्धमाह जन्यासंबन्धेऽपीत्यादिना । १० येन- पूर्वसत्त्वेन हेतुना । ११ कुम्भकारादिक्रियया निष्पाद्यत्वात् ।