भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 147, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 147

१३० शिवदृष्टिः [ आ०-४. मुष्टिप्रसृततादेः । अत्र हि हस्तता तुल्या द्वयोरपि, तथा सद्‍रूपता अनयोः । एतच्चात्यन्तप्रसिद्धमेतद्‍व्युत्पादनार्थं प्रदर्शितम् । वस्तुतो मृदपि पर्यालोच्यमानशब्दस्पर्शादितन्मात्रमयी जलादिविलक्षणा यावत्त्रैगुण्य- तादवस्थ्यम्, तत्तावदवस्थेऽपि यानि कार्याणि महदादीनि पृथिव्यन्तानि घटा- द्यन्तानि वा, तानि त्रैगुण्यमात्ररूपाणि विश्वस्यैकत्वापत्तेः । तदधिकत्वे तु इदं शब्दतन्मात्रमयमाकाशः, इयं पृथिवी, अयं घटः, अयं पट इति विभागः । विभागोऽपि च तद्भेदाद्वास्तव एव । न च प्रकाशमानस्यावस्तुता युज्यते त्रैगुण्यस्यापि तथा प्राप्तेः । प्रकाशनं च प्रतीयमानता प्रत्यक्षेणास्तु अनुमानेन वा सर्वथा सद्‍रूपवत्ता स्यात् । एवं च मृत्पिण्डोऽन्य एव सति यस्मिन् घटो भवति, घटश्चाप्यन्यो, मृदप्यन्या, या सर्वमृण्मयेष्वनुगता, घटश्चाननुगतः । न च अनुगताननुगतयोरैक्यं घटते, ततश्च पटादेः करणं न किमिति दोषः । दर्पणवत् विश्वप्रतिबिम्बयोगि त्रैगुण्यमित्यभ्युपगमेऽपि यद्वशात् तथाप्रतिबिम्बयोगस्तदेव कारणम्, तत्रापि भेदाभेदपर्यालोचनाद- नुपपत्तिरिति चिन्मयशिवरूपतैव सर्वकार्याणामीश्वरप्रत्यभिज्ञोक्तन्याये- नेत्याह स्थितमेव हि सत्कार्यमिति । अत एव शिवरूपतया सत्त्वादविना- शिता । न हि शिवस्य स्वसंविद्रूपस्य सतो विनाश इतीश्वरप्रत्य- भिज्ञायामेवं चोक्तम् । मौलिनाशेऽपि हेमवदिति सर्वलोकानुसारेण पूर्ववन्निदर्शनम् ॥ ५३ ॥ नाशः कटकरूपेण सद्भावः कुण्डलादिना ॥ ५४ ॥ सुवर्णत्वेऽपि न भ्रंशः संस्थानेऽपि विचार्यताम् । कटककुण्डलादिलौकिकनिदर्शनेन संस्थानमात्रभेद उक्तः। संस्थानेऽपि भेदो विचार्यताम् ॥ ५४ ॥ तद्विचारेण च शिवकारणतामेव पर्यवसानयन्नाह-- किं शिवत्वेन तद्व्याप्तमव्याप्तं वाभिधीयताम् ॥ ५५ ॥ व्यापित्वे तद्विनाशित्वमव्याप्तौ स्यात्प्रदेशिता । मौलिशिवत्वव्याप्तौ मौलिविनाशे शिवविनाशः । शिवाव्याप्तत्वे वा शिवस्य प्रदेशवृत्तित्ता मौलिघटपटादिस्वरूपदेशपरिहारेणावस्थाने भिन्नस्वरूपदेशत्वं ततश्चाविभुत्वमिति संस्थाने उभयथाभिधीयमानो दोषः ॥ ५५ ॥