शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 15, कुल 188 में से
संदर्भ में पढ़ेंॐ सच्चिदानन्दाय नमः अथ शिवदृष्टिः श्रीमत्सोमानन्दविरचिता श्रीमहामाहेश्वरोत्पलदेवाचार्यविरचितवृत्त्योपेता प्रथमाह्निकम् चिदाकाशमये स्वाङ्गे विश्वालेख्यविधायिने । सर्वार्द्भुतोद्भवभुवे नमो विषमचक्षुषे ॥ १ ॥ १ विषमचक्षुषे इति—यद्धि प्रमाणप्रमेयलक्षणं विश्वं तद्भेदाभासेन मिथ्यैवेति नेत्रद्वितयेन द्योत्यते भगवता । परमार्थतस्तद्गतायामपि स्वात्म- स्फुरत्तामात्ररूपत्वादस्य विश्वस्य न कापि भेदकलङ्कदोषकल्पनेति तृतीय- नेत्रेण द्योत्यत इति । तच्च भगवत एवान्यस्य तु न भेदाधिष्ठातृत्वादिति । ततश्च तत्रैव नमस्कारो युक्तः, अन्यत्र तु किं फलमिति वाक्यार्थसमन्वय- दीपिकायां निर्णीतमिति । तदेव समर्थयति 'स्वाङ्गे विश्वालेख्यविधायिने' इति । स्वाङ्ग इति न तु व्यतिरिक्ते क्वचन । यदुक्तं पूर्वगुरुणा— 'निरुपादानसंभारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ॥' ( स्त० चि० ५ ) इति । भगवता वीरेण व्यासेनापि— 'मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ॥' ( भ० गी० १४।३ ) इति । कालिकाकारविश्वचित्रेणापि नास्य स्वरूपान्यथाभाव इत्याकाश- साम्यं व्यतिरेकध्वनिश्च । निमित्तावेव चित्रविधानमिति महदाश्चर्यम् ।