भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 18, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 18

४ शिवदृष्टिः [ आ०-१ सर्वभावेषु स्वात्मैव शिव इति व्यवहर्तव्यमिति प्रतिज्ञा¹। निर्वृत- चिदित्यादिविशेषणकलापो हेतुः²। स्फुरन्निति धर्मिणो³ हेतोश्च⁴ स्वसंवे- दनप्रत्यक्षं प्रमाणम्⁵। अत एव स्फुरन्निति पृथक्पदम्। निर्वृतचित्त्वाच्चैव⁶ च शिवत्वमित्यर्थाच्चिद्वलक्षणमपि दर्शितम्। तस्मिंश्च सिद्धे विषये, शिव- त्वव्यवहारमात्रं तद्विषयं साध्यत ईश्वरप्रत्यभिज्ञोक्तक्रमेण। यथा च चिन्निर्वृतीच्छाज्ञानक्रिया घटपटपर्यन्तसर्वभावेषु भासमानेषु स्फुरन्ति, एव च न बाह्यं नाम किंचन परमार्थतो विद्यते। एवं चार्थस्य प्रकाशत्वे प्रकाशोऽप्यर्थः अर्थोऽपि प्रकाश इति भावगर्भीकारेण व्यासमुनिना गीतासूक्तं— 'यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति।' (६।३०) इति। तथा— 'सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि।' (६।२९) इति च। वृत्तिकृता चान्यत्रोक्तम् 'अर्थानां प्रकाशात्मतया परमात्मत्वेन विश्वरूपत्वात्'। अन्यत्रोक्तम् 'एकैकत्र च तत्त्वे षट्त्रिंशत्तत्त्वरूपता विद्यते' इति। तथा वेदान्तिनोऽपि प्राहुः— 'प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तोऽविकल्प्यश्च।' इति। अत एव च शरीरमेव च ये षट्त्रिंशत्तत्त्वमयं शिवरूपतया पश्यन्ति अर्चयन्ति, तेऽपि च सिद्ध्यन्ति घटादिकमपि वा तथाभिनिविश्य पश्यन्तीति नास्त्यत्र विवादः। १ परप्रतीतौ पञ्चावयवं वाक्यमुदाहरणीकरोति प्रतिज्ञेति, ससाध्यं पक्षकथनं प्रतिज्ञा। २ लिङ्गवाचको हेतुः। ३ स्वात्मैव शिव इत्यस्य। ४ निर्वृतचिदित्यस्य। ५ अनुमानं हि प्रत्यक्षमूलम्। ६ निर्वृतिः स्वप्रकाशस्वरूपविश्रान्तिरानन्दलक्षणा, तत्र नित्ययोगे मत्वर्थेऽच् प्रत्ययः। तेन चितः समासकरणं वृत्तौ पदानामेकार्थीभावादत्यन्ता वियोगमेकार्थी- भूततां च प्रकाशानन्दयोर्दर्शयद्विज्ञानानन्दरूपस्य भगवतो धर्मित्वं कथयति। उक्तं चेश्वरप्रत्यभिज्ञायां— 'किंतु मोहवशात्तस्मिन्दृष्टेऽप्यनुपलक्षिते। शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते॥' (१।१।३) इति।