भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 25, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 25

आ०-१ ] उत्पलदेवकृतवृत्त्योपेता ११ 'मायाशक्तिकृतपूर्णस्वरूपाख्यातिमयचित्रकार्यतापन्नस्वरूपप्रसरण- रसात्२ प्रभोरस्य तद्रूपस्य३ कार्यभेदस्य कुत्सितत्वमयुक्तम् । तथाहि परा- परावस्थायां४ सदाशिवेश्वररूपत्वे विश्वमहमिति विश्वरूपत्वमेव संविदि स्फुरति५ । अपरावस्थायामपि६ अहं घटमिमं वेद्मि घटोऽयमिति वा द्वैतदृष्टौ चिदात्मकतां७ विना प्रकाशमानतैव नोपपद्यते इति तद्रूपतैव८, किंतु९ मायाशक्तिवशादभेदापरामर्श१० इति सर्वदा११ स्वरूपप्रसरणमेवेति कथं गर्हितत्वम् । अभेदापरामर्शनमेव भ्रान्तिरूपं कुत्सितं, तच्च१२ न १ मीनाति पशुप्रमातॄनिति माया, सा चासौ शक्तिः । तेन परमेश्वरस्य स्वातंत्र्यमेव यच्चिकीर्षालक्षणं, तेनाहमित्यखण्डितेऽपि स्वरूपे भासमाने या तत्रैवेदमिति प्रतीतिः स्वरूपप्रसरणरूपा, सैव मायाप्रमातॄन्प्रति मायाशक्तिः । २ तेन शक्तिमता स्वस्वातन्र्यरूपया मायाशक्त्या कृता या पूर्णस्या- ख्यातिरिदमहमिति । ३ स्वरूपप्रसरणरूपस्य । ४ परापरावस्थायां सदाशिवेश्वररूपत्वे । यद्यत्र शुद्धविद्यास्वरूपो- न्मीलनं न कृतं, तथापि तदभावोऽपरावस्थात्वं तस्या न मन्तव्यं, यतो यथा शिवतत्त्वस्य यदौन्मुख्यं सा शक्तिरिति भण्यते न परावस्थायां शिवतत्त्वात् पृथग्गणनीयतां गता, तथा सदाशिवेश्वरयोरपि बहिरौन्मुख्यं विद्येति भण्यत इति न तस्याः पृथगिह निर्देशः । ५ तेन नात्र कापि कुत्सितत्वशङ्केत्यर्थः । ६ अत्रेमं घटमिति यदि प्रमातृविश्रान्तः प्रकाशस्वरूपो न स्यात्, तर्हि अहमित्यत्राहन्ताश्लिष्टः कथं भासेत । ७ नन्वस्तु सूक्ष्मो विमर्शोऽहन्ताविश्रान्तत्वादहं घटमिमं वेद्मी- त्यत्र प्रकाशस्वरूपावेश्येव, यत्राहन्ताविश्रान्त्यभावात् स्थूलत्वेन घट इति अयमिति च विकल्परूपता; तत्र शब्दोऽपि नीलवत्पृथगेव प्रतिभासते, तत्र कथं प्रकाशात्मतेत्याशयगर्भीकारेणाह चिदात्मकतां विनेत्यादि । उक्तं च प्रत्यभिज्ञायां-- 'घटोऽयमित्यध्यवसा नामरूपातिरेकिणी- परेशाशक्तिरात्मेव भासते न त्विदन्तया ।।' ( १।५।२० ) इति । ८ तद्रूपता चिद्रूपता । ९ यद्येवं, तर्हि केयमपरा नाम वराकीत्याशये- नाह किंत्विति । १० इदन्तया भेदेनैव परामर्शः । ११ सर्वदेति परापरादौ । १२ तत् कुत्सितत्वम् । तथा च कुत्सितं स्वरूपव्यतिरिक्तत्वात्स्यादिति ।