शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 35, कुल 188 में से
संदर्भ में पढ़ेंआ०-१ ] शिवदृष्टिः २१ भवति व्यक्ततरत्वात् १ न तु सूक्ष्मम् । महत्तत्त्वेऽपि २ प्रधानादेः कारणस्य सौक्ष्म्यमेव ३ । तथा चिन्मयत्वात् सर्वस्य यावत्प्रकाशान्वयः । सत्त्वा- त्प्रभृति जलतत्त्वेऽपि शुक्लप्रकाशवर्णं तावत्कारणता संभाव्या । पार्थि- वेऽपि तु यावत् तदस्ति चित्रप्रकाशैक्याख्यातिमात्रात् पृथक् ४ प्रकाशा- त्मत्वेऽपि । तदुक्तम् जडाभासं ५ कार्ष्ण्यात् जडोऽप्रकाश आभासो ६ रूपमस्येति तत् । आकाशादिमहाभूतमयन्तन्मात्र ७ पञ्चक ८ व्यूहनात्मतया संहतम् ९, अनन्तरं संपर्कान्तरासंभवादन्त्यकार्यम्, अत एव बहूनां संघा- ताद्घनं स्वदेशान्तरप्रतिबन्धकम् अत्यन्तपरसंमिश्रणासहं १० परिपुष्टद्वैत- दृष्टिपर्यन्तनिविष्टम् ॥ २६-३३ ॥ अत ११ ऊर्ध्वं यानि भुवनादीनि कार्याणि, तान्येवामेव भूतानां विभवभूतानि अपरिसंख्येयानि स एव निर्मिमीत इत्याह-- तथा नानाशरीराणि १२ भुवनानि तथा तथा । विसृज्य रूपं १३ गृह्णाति प्रोत्कृष्टाधममध्यमम् १४ ॥ ३४ ॥ १ पञ्चत्रिंशत्तत्त्वकारणं हि पार्थिवं तत्त्वं, तथा च तत्तत्सहकारि- कारणोपस्कृतत्वात्कारणादपि कार्यस्य व्यक्ततरत्वात्स्थूलत्वं कार्यस्य कारणेऽन्तर्भावात् । २ सर्वानुस्यूतत्वात् । ३ अव्यक्ततरत्वात् । ४ तत् पार्थिवं तत्त्वं 'नाप्रकाशः प्रकाशते' इति न्यायेन प्रकाशात्मत्वेऽपि चित्रप्र- काशैक्याख्यातिमात्रात्पृथगेवास्ति । ५ पार्थिवं तत्त्वम् । ६ जलेऽपि शुक्ल- वर्णाभासादस्त्येव प्रकाशान्वयः, पार्थिवे कार्ष्ण्याभासान्नास्तीत्यर्थः । ७ विशेषाणां सामान्यमूलत्वात्सामान्यकारं तन्मात्रपञ्चकम् । ८ व्यूहनं विशेष- रचना । ९ संहतं निविडं मिलितम् । शब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यो व्यूढेभ्यः पार्थिवं तत्त्वमिति । १० जलादिषु ह्येतानि सर्वाण्यसंभाव्यानि । तानि ह्यन्यसंपर्कसहनशक्तानि, अघनानि, स्वदेशान्तराप्रतिबन्धकानि अत्यन्तपरसंमिश्रणासहानि, अत एव न द्वैतदृष्टिपरिपोषकाणि । ११ ननु किमिदं षट्त्रिंशत्तत्त्वरूपतां बिभ्रदित्युच्यते यावदन्यदपि विभवात्मकं भुवनजातमस्त्येवेत्याशङ्कयाह अत इत्यादि । १२ भोगसाधनानि शरीराणि । भुवनानि भोग्यानि । १३ भोक्तारं देवतिर्यङ्मनुष्यरूपम् । १४ अयमत्र तात्पर्यार्थः-आदौ ह्यपूर्णम्मन्यतारूपः परिस्पन्दोऽकर्मकमभिलाष- मात्रं भविष्यदवच्छेदयोग्यतेति । ततोऽपि रागः कर्माविच्छिन्नोऽभिलाषः । कर्म तु तत्र कर्ममात्रं, ततोऽपि कर्मभेदविचित्रो बुद्धिधर्मो राग इति । तदिदं