शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 43, कुल 188 में से
संदर्भ में पढ़ेंअथ द्वितीयमाह्निकम् ईश्वराद्वयवाद¹ एव युक्तियुक्तो², न तु शब्दपरब्रह्माद्वयवाद इति वक्तुं, वैयाकरणोपेतशब्दाद्वैतं तावन्निराकर्तुमुपक्रममाण आह-- अथास्माकं³ ज्ञानशक्तिर्या सदाशिवरूपता । वैयाकरणसाधूनां पश्यन्ती सा परा स्थितिः ॥ १ ॥ पश्यन्ती यद्यपि⁴ नादरूपतया विश्वमामृशन्ती क्रियाशक्तिरूपतया समन्विता, तथापि पश्यन्ती इति दर्शनप्राधान्यात् उपचारिज्ज्ञानशक्ति- रूपत्वेऽप्याश्रीयमाणे⁵ परमशिवरूपताया अत्यन्तदूरवर्तिनी न तु पर्यन्त- १ तदेवमियता सर्वशासनार्थसंक्षेपार्थसूचकेन पीठिकाबन्धरूपेणो- पोद्घातपरेणानेन प्रथमाह्निकेन परमेश्वर एक एव तावत् स्वरूपप्रसारेण परापरादिरूपतया भासते, तथात्वेऽपि न खण्डितव्यपदेशव्यवहार्यः । तथाहि-परावस्थायां तावत्पूर्णानन्दस्वभाव एव, परापरायामपि रूपप्रसार- रसादेव न काचन विकल्पकलङ्ककल्पना, अपरावस्थायां पुनः प्राकृतप्रजा- यामपि च तस्य सहजप्रकाशबोधोऽस्तीत्यपि समर्थितम्। तदेतत्त्रिधात्व- मप्यन्यवादिमतेऽनुपपत्त्या समर्थितमपि शिथिलितमिव भाति । तस्मिन् हि निरसिते सर्वमिदं मेघावरणविगमेनेव स्वप्रकाशभानुकिरणवृन्दमत्यन्तस्वच्छं भासते नान्यथा, पांसुपातेन हि न मणेर्महार्घतापगच्छति, परं मलिनो भाति । तत्र प्राधान्येनेह परब्रह्माद्वयवाद एव निरसनीयः, प्रसङ्गागतस्य च शब्दब्रह्माद्वयवादस्य निरसनं तावत्तण्डुलशुद्धाविव कणनिरसनमिति तन्निरा- सनायाह न शब्दब्रह्मेत्यादि । २ अनुभवानुवर्ती सत्तर्कप्रकारो युक्तिः । ३ अथेति स्वसिद्धान्तकथनानन्तरं परप्रक्रियारम्भे । ४ ज्ञानशक्तौ हीच्छायां यद्बीजतयावस्थितं तदेव विकसितं, ततश्चात्रामर्शासंभवात् कथं ज्ञान- शक्तित्वमिहाप्युक्तं ज्ञानदर्शनयोग्यतेत्यत्र योग्यतेति, ततश्च कथमुक्तं ज्ञान- शक्तिः पश्यन्तीति मत्वाह् यद्यपीति । ५ अपिशब्दोऽत्रोपरोधेनैव ज्ञान- शक्तित्वं न तु वस्तुत इति द्योतयति ।