शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 47, कुल 188 में से
संदर्भ में पढ़ेंआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३३ तदर्थप्रकाशनव्यापार इन्द्रियाद्यालोचनाद्युपायोपयोगो नास्ति देशकालजात्यवच्छेदश्च१, अत एव सर्वतो देशात् कालाच्च यः क्रमस्तदुप- पदेशमात्रं ब्रह्मतत्त्वं क्रमस्यैव२ संसाररूपत्वात्, अतश्च सर्वग्राह्यग्राहका- कारवर्जितं, ततः परतरस्याभावात्३ पराकाष्ठा, प्राप्तं तत् स एव च परमार्थः पश्यन्तीरूपः ॥ ५ ॥ स एव च पुनरेवं भवतीत्याह-- आस्ते विज्ञानरूपत्वे स शब्दोऽर्थविवक्षया । मध्यमा कथ्यते सैव बिन्दुनादमरुत्क्रमात् ॥ ६ ॥ स एव पश्यन्तीरूपः४ शब्दोऽर्थप्रतिपादनेच्छारूपया विवक्षया उप- लक्षिते मनोविज्ञानरूपत्वे५ आस्ते६। सैव च मध्यमा वाक् कथ्यते क्रमेण७ बिन्दुनादसंज्ञप्राणापानवाय्रूल्लासात् 'प्राणापानान्तरे नित्यमेका८ सर्वस्य तिष्ठति।' इति ॥ ६ ॥ पुनरप्येवमास्त इत्याह-- संप्राप्ता वक्त्रकुहरं कण्ठादिस्थानभागशः । वैखरी कथ्यते सैव बहिर्वासनया क्रमात् ॥ ७ ॥ घटादिरूपैर्व्यावृत्ता गृह्यते चक्षुरादिना । १ देशकालादयः शून्याः अत्रेति देशकालादिशून्यकं तेषामपि तदनतिरिक्तवृत्तिकत्वादत एव वृत्तौ देशकालजात्यवच्छेदश्चेत्युक्तम् । २ क्रम एव संसारस्तेन तदात्मत्वेऽपि क्रमाभावत्तच्छून्यत्वम् । ३ अन्य- स्याधिकस्य । ४ अथेदानीमादौ पारमार्थिकं पश्यन्तीस्वरूपमुक्त्वा, तदनन्तरं जीवपरमात्मपरस्थितीर्निगमय्य, पुनस्तत्प्रसरक्रमेण व्यावहारिकिं संसार- स्थितिं प्राह येनायं ग्राह्यग्राहकाडम्बरो विवर्तमान आस्ते इति स एवेत्या- शङ्कापूर्वकम् । ५ मनोविज्ञानरूपत्व इत्यनेन पश्यन्तीरूपस्य शब्दस्य यैवार्थ- प्रतिपादनेच्छा विवक्षारूपा, तदेव मनोविज्ञानरूपत्वं, स एव पश्यन्त्याम- भेदस्थितौ सत्यामपि क्रमोल्लासः, सैवान्तःसंजल्परूपा मध्यमेति सूचितम् । ६ स्थितिं भजते । ७ तेन प्रागापानवाय्रूल्लास एव क्रमाभास इत्यर्थः । ८ पश्यन्तीरूपा सुषुम्णा । ६ 'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥' ३