शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 66, कुल 188 में से
संदर्भ में पढ़ेंआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४६ यदि तन्मतमाश्रयिष्यति, न तु¹ इदानीमेवमस्तीति प्रत्यक्षविरुद्धता- मस्योपगम्याह--चक्षुरादि² इन्द्रियमादिः प्रवर्त्तको यस्यास्तस्या मनोवृत्तेः सर्वस्याश्चक्षुरादिसहिताया³ भिन्नार्थविषयाया विलोपिता अनुपयोगिता च प्रत्यक्षविरुद्धापि भविष्यति ॥ ४० ॥ पुनरन्यत्पर्यालोचयन्नाह⁴-- पश्यन्ती किं शरीरेऽन्तर्बहिः सर्वत्र वा स्थिता ॥ ४१ ॥ अन्तरव्यापिता तस्या बाह्ये किं मध्यमादिना⁵ । पश्यन्ती किं शरीरेऽन्तरहन्ताभूमौ, किंवा बहिरपीति सर्वत्र स्थिता । पूर्वस्मिन्कल्पे⁶ परिमितत्वं, द्वितीयस्मिन् मध्यमायां कक्ष्या- यामिदन्तावेद्यमध्यमपि व्याप्त्यवस्थानात्⁷ किं मध्यमावैखरीरूप- वाक्प्रभेदेन ॥ ४१ ॥ प्रसरेन्नादबिन्द्वादिसापेक्षा चेदनीश्वरी⁸ ॥ ४२ ॥ पश्यन्ती अनुवर्तमाना प्राणापानरूपबिन्दुनादसापेक्षा चेत् सर्गसंहारयोः प्रसरेत्, तर्हि तथापि न व्यापिका नाप्यद्वया स्यात् । एतदनीश्वरत्वम् ॥ ४२ ॥ प्रतिदेहं पृथक्किं सा सर्वत्रैक्येन वा स्थिता । १ प्रत्यक्षावभासे अन्धमूकबधिरम् । २ चक्षुरादिना दृष्टमेव हि मनसा संकल्पगोचरीकरोति । ३ 'कादीनि व्यञ्जनानि' इतिवत् तद्गुण- संविज्ञानबहुव्रीह्याश्रयेण चक्षुषोऽपि ग्रहणम् । ४ इत्थमविद्यावादकथन- निरासपूर्वं मध्यमायास्तत्कार्यत्वं निवार्य, इदानीं पश्यन्तीमेव-- 'अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तःसूक्ष्मा वागनपायिनी ॥' इति लक्षणे यदेतत्स्वरूपज्योतिरेवान्त इति भागद्वयं, तत्र दोषोद्भावनाया- वतारयति पुनरन्यदित्यादिना । ५ तस्यापि तत्स्वरूपत्वेनाप्रच्युतेः । ६ कल्पे-प्रकारे । ७ अन्यत्राप्यनुसरणं व्याप्तिरिति । ८ ननु सत्यमेवैतन्मध्य- मादिष्वपि पश्यन्तीव्याप्तिरस्तीति, संजल्पादिसापेक्षत्वात्पश्यन्त्या अपि परं मध्यमादिव्यपदेशः, अत एवास्याः सापेक्षत्वाद्धेतोर्मध्यमेति निर्देशः न तु स्वरूपेण, पश्यन्त्यां तु स्वरूपेण स्फुटमस्त्येवेति शंकापूर्वं निरस्यति अनी- श्वरीत्यादिना । ४