शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 80, कुल 188 में से
संदर्भ में पढ़ेंआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६३ वैयाकरणैः साधुशब्दप्रयोगः स्वर्गापवर्गफल उक्तः । 'एकः शब्दः शास्त्रपूर्व प्रयुक्तः स्वर्गे लोके कामधुग्भवति' इति । तथा— 'साध्वी१ वाग्भूयसी येषु पुरुषेषु व्यवस्थिता । अधिकं वर्तते तेषु पुण्यरूपं प्रजापतेः ॥ प्राजापत्यं महत्तेजस्तन्मात्रैरेव२ संवृतम् । शरीरभेदे३ विदुषां स्वां योनिमुपधावति ॥' इति । तत्फलं स्वर्गाख्यं तावत्कस्य स्यात् यः शब्दप्रयोगस्य कर्तेति तत्फला- र्थितया पश्यन्त्याः कर्तृत्वे स्वर्गभोगोन्मुख्यात् अविद्यासंपर्केणाशुद्धता स्यात् । मध्यमावैखरीदशायामिष्टानिष्टोपलम्भभाजिप्राप्तिपरिहारोन्मुख्येन प्रवृत्तिः । तन्न, पारमार्थिकप्रमातृनिष्ठा हि विषयव्यवस्थितिः, तन्मध्यमादेः सवि- भागत्वेन द्वैतावस्थाने सति अविद्याशबलरूपतया जडत्वान्न परमार्थपद- प्रतिष्ठेने किञ्चिद्भोगेेन, भोग एवासौ न भवेदित्यर्थः । तस्मात्साधुशब्दः प्रयुक्तः शब्दविद्याफलस्य भोगादेर्दाता, प्रत्युत पश्यन्त्या अशुद्ध्यापादनेना- साधुरशुभः स्यात् । एवं चाशुभकारित्वाद्यथावर्णितफलं व्याकरणमपि त्वदीयं समुच्छिन्नं हेयमेव स्यात् ॥ ७१ ॥ वैयाकरणतां त्यक्त्वा विज्ञानान्वेषणेन४ किम् । भवतामप्रस्तुतेन५ न केवलमिहोदितम्६ ॥ ७२ ॥ विज्ञानाभासनं यावत्समीक्षायामुदाहृतम्७ । १ साध्वी व्याकरणव्युत्पत्तिसंस्कारसहिता । २ तैरेव केवलं संवृतं गोपितम् । ३ मरणक्षणे । ४ सम्यग्ज्ञानवेषणया । ५ प्रस्तावनानर्हेण । ६ ननु साधुशब्दानुशासनत्वमेव प्रधानं प्रयोजनं व्याकरणस्य व्यवस्थापितं प्रसङ्गागतं तत्र विज्ञानाभासनं व्यवस्थापितमिति कात्र हानिरिति समर्थयति न केवलमित्यादिना । ७ अनेन तेषामत्र सिद्धान्तप्रतीतिरस्तीति ध्वनितम् ।