शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 87, कुल 188 में से
संदर्भ में पढ़ें७० शिवदृष्टि: [ आ०-२ स्थिता सा न पुनः सत्या वाचो वायुगमात्मनः । इष्यते ब्रह्मरूपत्वं¹ घटादेरपि कथ्यताम् ॥ ८७ ॥ पश्यन्ती हि दर्शनक्रियात्मिका पूर्वापरीभूतावयवा, पूर्वं² चैतद्- द्रष्टव्यमिति विमर्शः कुलालादेरिव घटादिकरणेऽवश्यमिच्छात्मकः स्यात्, तद्वदत्रापि³ सर्वमेतत्स्थितम् । एवं चेच्छा दर्शनक्रियायाः पूर्वा स्थिता, तस्याश्चेच्छाया अपि चित्तत्वसंबन्धिसूक्ष्मतरोल्लासमिष्टज्ञेयकार्योन्मुख्य- लक्षणं विना प्रागुक्तन्यायात् कथं प्रसरः, तस्या अपि चित्तो निवृत्यो- न्मुख्येच्छाज्ञानक्रियाक्रमव्यवस्थाया यत्सामरस्यमेकीभावः समावेशविषय- स्तत्र व्यवस्थावान् व्यवस्थाश्रयोऽक्रमः शिवभट्टारकः स्थित इति । एवं ज्ञानशक्तिताभिप्रायेणापि पश्यन्त्या भवलक्षणां प्रक्रियां प्रति सूक्ष्मतरा- न्यापि पररूपा स्थितिरस्ति, ततः साप्यनुमन्तव्या न तु वायुगमात्मिकाया वाचः सत्यास्तस्या ब्रह्मरूपत्वमेष्टव्यम् । एवमिष्यमाणे⁴ भूतत्वाविशेषात् घटादेरप्येवमुच्यताम् ॥ ८७ ॥ यथा⁵ सर्वपदार्थानां भगवच्छिवरूपता । तद्वद्वागिन्द्रियस्यापि न पुनः सा परा दशा⁶ ॥ ८८ ॥ कण्ठादौ वदने वायोर्व्यापारो वाग्रुतस्य सा । करणं, नादरूपादिशब्दस्यास्ति शिवात्मता ॥ ८९ ॥ तस्यापि कथिता पञ्चतत्त्वदीक्षाविधौ क्वचित् । न वाच इष्यते तद्वत्तस्मात्सर्वं शिवात्मकम् ॥ ९० ॥ यद्यपि सर्वार्थानां ज्ञानगोचराणां चिदन्तःप्रवेशात् चिल्लक्षण- परमेश्वररूपता परमार्थतो यथा तथा वागिन्द्रियस्यापि ज्ञेयसर्वार्थान्त- १ यदि च सामान्यतयास्या वाचस्तर्हि घटादेरपि तथा प्रकल्प्यताम् । २ तस्याः क्रियायाः । ३ पश्यन्तीविचारे । ४ तस्या ब्रह्मत्वे । ५ ननु च सत्यमेवैतद्घटादेरपि कथ्यतामिति यत्सर्वार्थानां ज्ञानगोचरत्वाच्चिदन्तः- प्रवेशाच्चिन्मयत्वे परिपूर्णमखण्डमेव परमेश्वरत्वमिति, तच्च साम्येऽपि वाच इयान्विशेषः सत्त्वादेर्यदग्राह्यत्वमिति, सर्वार्थान्तर्भावस्तु सर्वत्र समान एवेति बुद्ध्याद्यग्राह्यत्वविशेषेण तस्या एव ब्रह्मत्वमित्याशंक्याह यथेत्यादि । ६ ‘न पुनः सा परा दशा’ इत्यनेन तस्या अन्येभ्यो विशेषे सत्यपीति ध्वनितम् ।