षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 108, कुल 408 में से
संदर्भ में पढ़ें२० बालबोधः । शेऽध्याये "वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिन" इत्याद्युद्धवप्रश्ने "कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता । मयाऽऽदौ ब्रह्मणे" इत्यारभ्य "मन्मायामोहितधियः पुरुषाः पुरुषर्षभ । श्रेयो वदन्त्यनेकान्त्याद्यथाकर्म यथारुची"त्यन्ते सन्दर्भे सिद्धय- तीति न शङ्कालेशः ॥ ३ ॥ एवं द्विविधानां स्वरूपमुक्त्वा लौकिकतत्तद्वक्तृणामृषीणामानन्त्यात्तदुक्तिषु हेयोपादेयभावं बोधयितुं वैदिकानां निःसन्दिग्धत्वं च बोधयितुमाहुर्लौकि- कानित्यादि । लौकिकांस्तु प्रवक्ष्यामि वेदाद्याया अतः स्थिताः । धर्मशास्त्राणि नीतिश्च कामशास्त्राणि च क्रमात् ॥ ४ ॥ त्रिवर्गसाधकानीति न तन्निर्णय उच्यते । लौकिकान् सार्त्तान् धर्मादीन् । तुः शिष्यपरिगृहीतपक्षनिरासे । प्रकर्षेणेतर- विवेकेन वक्ष्यामि कथयिष्यामीत्यतो हेतोः आद्या अलौकिका वेदात्काण्डद्वयात्मकात् स्थिताः जैमिनिकल्पकारबादरायणैराचार्यैः शब्दादिवलाबवं विचार्य शब्दादेव गुणप्र- धानभावेन व्यवस्थापिताः। तथाच यदि वैदिकधर्मेप्सुस्तदा यथाशाखं कल्पेन जैमिनी- येन च धर्मं साधयेत् । तथैवाऽर्थेप्सुरपि ताभ्यां तम् । यदि कामेप्सुस्तदा तथैव तमपि। मोक्षेप्सुस्तु यथाधिकारं वैयासेन ब्रह्मवादेन स्वतो मोक्षं भेदवादविशिष्टाद्वैतवाद- विशिष्टभक्त्यादिभिः परतो मोक्षमिति निबन्धादौ निर्णीतमेव । अतस्तेषामसन्दिग्ध- त्वादन्त्यानेव कथयिष्यामीत्यर्थः। एवं प्रतिज्ञाय "मानाधीना मेयसिद्धि"रिति मानकथनमुखेनैवाऽऽहुर्धर्मेत्यादि। धर्मशास्त्राणि मन्वादीनि गृह्यसूत्रादीनि च । तेनाऽऽगमाँ वामाद्या व्यावार्त्तिताः । नीतिः बृहस्पत्यादिप्रणीतं राजनीतिशास्त्रम् । एकवचनं ब्राह्मवैशालाक्षावहदन्तकबार्हस्पत्यौशनसप्राचेतसादीनामिदानीमप्रसिद्धत्वा- द्राजधर्मादौ भारते दिङ्मात्रमुक्ताया अपि नीतेः कार्यक्षमत्वात्तत्परम् । तेन चौरद्यूत- कारादिशास्त्राणि व्यावार्त्तितानि । कामशास्त्राणि वात्स्यायनसूत्राणि । ब्राह्मनान्द- बाभ्रव्यादीनामिदानीमप्रसिद्धत्वेऽपि दन्तकादिप्रणीतशास्त्रार्थस्य वात्स्यायनसूत्रेषु सप्ताधिकरणया कथनाद्बहुवचनम् । तेनाऽपि " मातॄयोनिं परित्यज्य विहरेत्सर्वयोनि- ष्वि"त्यादिबोधकानि कौलादीनि व्यवर्त्तितानि । एतानि क्रमात् त्रिवर्गसाधकानि । तथा च तदुक्तरीत्या साधने धर्मार्थकामाः परस्पराविरोधेन सिद्धयन्ति । यथाऽऽह
१ एतेन ' यतः स्थिता ' इत्यत्र ' अतः स्थिता ' इति पाठः प्राप्यते परन्तु मूले तथा स्वीकारे प्रत्युत योज- नायाः क्लिष्टत्वात् ' कथयिष्यामि यतो हेतोरे'ति विवृतावेव पाठः प्रतिभाति । २ तेनाऽऽगमाया व्यावार्त्तिता इति ख, ३ बाद्दकतकेति ख, बाद्दत्तकेति ग,