षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 118, कुल 408 में से
संदर्भ में पढ़ें३० बालबोधः । कर्त्तव्यत्वान्महानित्यर्थः । अयमाशयः । मत्स्यपुराणसमाप्तौ कल्पानुकीर्त्तनाध्याये 'सङ्कीर्णाः सात्त्विकाश्चैव राजसास्तामसास्तथा' इति चतुर्विधान् कल्पान् प्रदर्श्य 'अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते । राजसेषु तु माहात्म्यमधिकं ब्रह्मणो विदुः । सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते । सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः । तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम्' इति चतुर्विधानां लक्षणोक्ति- पूर्वकं सात्त्विकेष्वेव सावधारणं मोक्ष उच्यते । तथा कौर्मेऽपि सात्त्विककल्पान् प्रकृत्य 'ध्यानं तपस्तथा ज्ञानं लब्ध्वा तेष्वेव योगिनः । आराध्य मां च गिरिशं यान्ति तत्परमं पदम्' इति । पुराणानामपि तत्तत्कल्पानुसारित्वं मत्स्यपुराणे पुराणदाना- ध्याये उक्त्वा 'सात्त्विकेष्वथ कल्पेष्वि'त्यादि पठितम् । तेन ज्ञायते यद्विष्णु- माहात्म्ययुक्तं पुराणं तत्सात्त्विकम् । तथैवाऽन्यत्तामसादिकम् । वामनपुराणे दशमा- ध्याये “देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः । स्वाध्यायो वेदवेत्तृत्वं विष्णुपूजारतिः स्मृता । दैत्यानां बाहुशालित्वं मात्सर्यं युद्धसत्क्रिया । वेदनं नीतिशास्त्राणां हरभक्तिरुदाहता' इति श्लोकद्वयेनोक्ताः पूर्वोक्ता जीवाश्च त्रिविधाः सात्त्विकादिरूपेण पर्यवस्यन्ति । एवं सति सात्त्विकपुराणोक्तविष्ण्वाराधनात्सात्त्विक- कल्पे मुक्तिः । तथा 'मां च गिरिशम्' इति वाक्याच्छिवाराधनादपीति सिद्ध्यति । इयमेव व्यवस्था तन्त्रेऽपि, न्यायसाम्यात् । तत्र सात्त्विकानां सत्त्वनिवृत्तौ गुणाती- तत्त्वसैद्ध्यान्मोक्ष इति तद्द्ाने विष्णोर्न श्रमः । भोगदाने तु दोषानुद्भवपूर्वकं शान्त- स्वभावस्य परिवर्त्तनीयत्वान्महान् श्रमः । तामसानां तु गुणत्रयप्रयुक्तशान्तघोर- विमूढत्वनिरासेन गुणातीतत्वसम्पादने शिवस्य महान् श्रमः । भोगदाने तु स्वभावपरिवर्त्तनस्याऽनपेक्षत्वान्न श्रमः । तस्मादेषा साधनापेक्षा नौदार्यस्य भङ्गिकेति साधनानामभावे योग्यताया अप्यभावे यद्दानं तेन च तस्य जीवस्योत्कर्षादिकमिति मूलरूपस्यैव धर्मो न त्ववतारधर्म इति न किञ्चिदनुपपन्नम् । एवं साधकदोषवशेन तद्द्ाने तयोः श्रमबाहुल्यं साधयित्वा तद्दोषनिवृत्तये यत्साधकस्य आवश्यकं तन्त्रत्यं शास्त्रान्तरीयं वा साधनं तदाहुर्दोषाभावायेत्यादि । दोषस्य दोषाणां वा अभावाय निवृत्त्यर्थं सर्वदा कालाविच्छेदेन श्रवणादि तन्त्रोक्तं वा त्रिकं वा पञ्चकं वा यत्त- १ “देवानां परमो धर्मो विष्णुपूजारतिः स्मृता । दैत्यानां बाहुशालित्वं हरभक्तिरुदाहृते”ति क. ग. घ. २ श्लोकद्वयेनोक्तमिति ख. ग. घ. ३ कल्पेष्विति ख. ४ शान्तस्वभावस्याऽपीति ख. ५ अभावाय, निवृत्तौ चतुर्थी, मशकेभ्यो धूप इतिवत्, निवृत्त्यर्थं. सर्वदेत्यादि क. ६ कालानवच्छेदेनेति ख. ७ तन्त्रोक्तं त्रिकं पञ्चकं वा यत्तन्त्रोक्तमित्यादि क. तन्त्रोक्तं वा तात्त्विकं वा पञ्चकं यत्तन्त्रोक्तमित्यादि ख. तन्त्रैकं वा त्रिकं वा पञ्चकं वा यत्तन्त्रोक्तं तत्कर्त्तव्यमिति शेष इति घ.