भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 127, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 127

श्रीद्वारकेशचरणविरचित टीकासमेतः । ३९ पूर्वकोटिद्वितीयपक्षमाहुरत्याग इति । अत्यागे योगमार्गो हि त्यागोऽपि मनसैव हि । यमादयस्तु कर्त्तव्याः सिद्धे योगे कृतार्थता ॥ ९ ॥ त्यागाभावे तु योग एव फलसाधकः । सर्वथा अत्यागे योगोऽपि न सिद्धयेत् । अतो मानसमिति विद्वांस इत्यादिना मानस एव सः । तादृशस्यैव तस्य सात्त्विकत्वात् । योगाः बहुविधाः सबीजनिर्बीजभेदेन । तत्र विविधप्रकारकाणां मध्ये एक एव योगस्तत्स्वरूपाभिज्ञैरादृतः, आत्मबोधकत्वात् । निर्बीजेपि यस्मिन् भगवतो ध्यानं स एव योग आत्मबोधको भवति, स्थूले भगवतो रूप इत्यादिनाक्तत्वात् । तत्र योगसिद्धयर्थं यमादयस्तु कर्त्तव्याः, ततः सिद्धे योगे योगसिद्धिं प्राप्य मुक्तिं ते प्राप्नुवन्ति । ततस्ते कृतार्था इत्युच्यन्ते ॥ ९ ॥ द्वितीयकोटिमाहुः, एवं स्वतो मुक्तिप्रकारमुक्त्वा परतोप्याहुः परेति । पराश्रयेण मोक्षस्तु द्विधा सोऽपि निरूप्यते । ब्रह्मा ब्राह्मणतां यातस्तद्रूपेण सुसेव्यते ॥ १० ॥ मोक्षे ये मोचकास्तेषामाश्रयेण मोक्षोऽवश्यं भवत्येव । सोपि द्विविधः, सगुण- निर्गुणभेदेन, सात्विकतामसाभ्यां वा । ननु यथा विष्णुशिवौ पालकनाशकौ तथा ब्रह्मा सर्जकः । कथमयं स्वतन्त्रतया मुक्तिं न प्रयच्छतीत्यत आहुर्ब्राह्मणतां यात इति । ब्राह्मणस्य कर्म भावो वा ब्राह्मणता । ब्रह्म नयति प्रापयतीति तथा । भगवतः सकाशाद्वेदाध्ययनं तेनैव कृतमिति वैदिकेषु च स एव मुख्यः तत्कर्मनिष्णातेषु च । अत एव ब्राह्मणानामपि विध्युक्तप्रकारकर्मानुष्ठातृणाम्, महोपनिषज्ज्ञानवतामपि जरामर्याग्निहोत्रं कुर्वतामवस्थानन्तरं ब्रह्मसायुज्यं ततस्तन्मुक्त्यवसरे तत्सायुज्यं प्राप्तानां तेनैव सार्द्धं मुक्तिर्भवति । तदुक्तं तैत्तिरीयोपनिषत्सु, 'तस्यैवं विदुषो यज्ञ- स्ये'त्यारभ्य एतौ वै सूर्याचन्द्रमसौर्महिमानौ ब्राह्मणो विद्वानभिजयति, तस्माद्ब्रह्मणे महिमानमाप्नोति, तस्माद्ब्रह्मणे महिमानम्'इत्यन्तेन । यथा ब्रह्मा, तथैव शिवो विष्णुश्च गुणाधिष्ठातारो देवाः, त्रयाणामपि साम्यम् । एका सर्जिका, अपरा पालिका तृतीया संहारिका । एतादृशस्यापि ब्रह्मणो भगवद्रूपत्वेनैव भजनमिष्टसाधनम्, नतु ब्रह्मतत्वेन । सरस्वत्याः शापाज्जीवसहकृतेश्वरांशत्वाच्च, स्वतन्त्रतया भजनीयत्वस्या- पगमात् ॥ १० ॥ ते सर्वार्था न चाऽन्येन शास्त्रं किञ्चिदुदीरितम् । अतः शिवश्च विष्णुश्च जगतो हितकारकौ ॥ ११ ॥

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 127, कुल 408 में से · BharatKosha