षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 127, कुल 408 में से
संदर्भ में पढ़ेंश्रीद्वारकेशचरणविरचित टीकासमेतः । ३९ पूर्वकोटिद्वितीयपक्षमाहुरत्याग इति । अत्यागे योगमार्गो हि त्यागोऽपि मनसैव हि । यमादयस्तु कर्त्तव्याः सिद्धे योगे कृतार्थता ॥ ९ ॥ त्यागाभावे तु योग एव फलसाधकः । सर्वथा अत्यागे योगोऽपि न सिद्धयेत् । अतो मानसमिति विद्वांस इत्यादिना मानस एव सः । तादृशस्यैव तस्य सात्त्विकत्वात् । योगाः बहुविधाः सबीजनिर्बीजभेदेन । तत्र विविधप्रकारकाणां मध्ये एक एव योगस्तत्स्वरूपाभिज्ञैरादृतः, आत्मबोधकत्वात् । निर्बीजेपि यस्मिन् भगवतो ध्यानं स एव योग आत्मबोधको भवति, स्थूले भगवतो रूप इत्यादिनाक्तत्वात् । तत्र योगसिद्धयर्थं यमादयस्तु कर्त्तव्याः, ततः सिद्धे योगे योगसिद्धिं प्राप्य मुक्तिं ते प्राप्नुवन्ति । ततस्ते कृतार्था इत्युच्यन्ते ॥ ९ ॥ द्वितीयकोटिमाहुः, एवं स्वतो मुक्तिप्रकारमुक्त्वा परतोप्याहुः परेति । पराश्रयेण मोक्षस्तु द्विधा सोऽपि निरूप्यते । ब्रह्मा ब्राह्मणतां यातस्तद्रूपेण सुसेव्यते ॥ १० ॥ मोक्षे ये मोचकास्तेषामाश्रयेण मोक्षोऽवश्यं भवत्येव । सोपि द्विविधः, सगुण- निर्गुणभेदेन, सात्विकतामसाभ्यां वा । ननु यथा विष्णुशिवौ पालकनाशकौ तथा ब्रह्मा सर्जकः । कथमयं स्वतन्त्रतया मुक्तिं न प्रयच्छतीत्यत आहुर्ब्राह्मणतां यात इति । ब्राह्मणस्य कर्म भावो वा ब्राह्मणता । ब्रह्म नयति प्रापयतीति तथा । भगवतः सकाशाद्वेदाध्ययनं तेनैव कृतमिति वैदिकेषु च स एव मुख्यः तत्कर्मनिष्णातेषु च । अत एव ब्राह्मणानामपि विध्युक्तप्रकारकर्मानुष्ठातृणाम्, महोपनिषज्ज्ञानवतामपि जरामर्याग्निहोत्रं कुर्वतामवस्थानन्तरं ब्रह्मसायुज्यं ततस्तन्मुक्त्यवसरे तत्सायुज्यं प्राप्तानां तेनैव सार्द्धं मुक्तिर्भवति । तदुक्तं तैत्तिरीयोपनिषत्सु, 'तस्यैवं विदुषो यज्ञ- स्ये'त्यारभ्य एतौ वै सूर्याचन्द्रमसौर्महिमानौ ब्राह्मणो विद्वानभिजयति, तस्माद्ब्रह्मणे महिमानमाप्नोति, तस्माद्ब्रह्मणे महिमानम्'इत्यन्तेन । यथा ब्रह्मा, तथैव शिवो विष्णुश्च गुणाधिष्ठातारो देवाः, त्रयाणामपि साम्यम् । एका सर्जिका, अपरा पालिका तृतीया संहारिका । एतादृशस्यापि ब्रह्मणो भगवद्रूपत्वेनैव भजनमिष्टसाधनम्, नतु ब्रह्मतत्वेन । सरस्वत्याः शापाज्जीवसहकृतेश्वरांशत्वाच्च, स्वतन्त्रतया भजनीयत्वस्या- पगमात् ॥ १० ॥ ते सर्वार्था न चाऽन्येन शास्त्रं किञ्चिदुदीरितम् । अतः शिवश्च विष्णुश्च जगतो हितकारकौ ॥ ११ ॥