षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 157, कुल 408 में से
संदर्भ में पढ़ेंश्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ५ वेनैव तज्जले प्राकाम्यं प्रकृष्टकामविषयत्वं श्रद्धाविशेषपूर्वकस्नानादिव्यवहारो भवतीत्यर्थः । किञ्च । पुराणादिषु तज्जलदर्शनादिभिः फलं यदुक्तं तदनुभवेन महतामन्तःकरणप्रतीत्यापि तज्जलमन्येभ्यो जलेभ्यो विशिष्यत इत्यर्थः । एवं येषां हृदि भगवत्सान्निध्यं ते भक्ता अन्येभ्यो विशिष्यन्ते । अत एव 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन' मिति भगवतोक्तम् । एवं दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं निरूप्य उक्तमर्थं स्पष्टयन्ति यथा जलमित्यादिना । तत्रापीति । साधर्म्येपि । एतदिति । किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे, दृष्टान्ते त्रि- विधत्वाभावात् अत उच्यते । जगत्त्विति । त्रिविधं त्रिगुणात्मकं त्रिस्वभावत्वेन प्रकटं, तेन तत्तद्गुणनियामकत्वेन ब्रह्मादयो भगवतैव कृता इत्यर्थः । ब्रह्मैकरूपमिति तन्निष्ठानां नियामको हरिरेव । ये तु भगवद्भक्तास्तेषां स्वात्मनि स्वात्मविषये ऐहिके पारलौकिके चार्थे श्रीकृष्ण एव कामचार इत्यर्थः । अथवा । भक्तानां स्नेहातिशयेन स्वात्मत्वेनैव प्रभुः स्फुरतीति सर्वांशेन तत्प्रार्थने शङ्का न भवतीत्यर्थः । अथ जीवस्वरूपं तन्मुक्तिप्रकारं चाहुः आत्मनीति । आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतनाः ॥ १२ ॥ उपाधिनाशे विज्ञाने ब्रह्मात्मत्वावबोधने । गङ्गातीरस्थितो यद्वद्देवतां तत्र पश्यति ॥ १३ ॥ तथा कृष्णं परं ब्रह्म स्वस्मिन् ज्ञानी प्रपश्यति । संसारी यस्तु भजते स दूरस्थो यथा तथा ॥ १४ ॥ अपेक्षितजलादीनामभावात्तत्र दुःखभाक् । तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ॥ १५ ॥ आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत् । लोकार्थी चेद्भजेत्कृष्णं क्लिष्टो भवति सर्वथा ॥ १६ ॥ क्लिष्टोऽपि चेद्भजेत्कृष्णं लोको नश्यति सर्वथा । आत्मविषय उच्यत इति शेषः । जीवा ह्यणवोऽक्षरात्मकाः, तदात्मकत्वम- विद्यान्तरायभूतया न विदन्ति । तेन संसारमापद्यन्ते । इदमेवोपाधिरूपत्वं तस्याः, न श्रीमद्गोकुलनाथकृतविवृतिटिप्पणी । भगवतैव कृता इति । तन्मुक्तिप्रकारं जीवमुक्तिप्रकारमित्यर्थः । न तु तत्कृतं जीवत्वमि- ति । यथा मायावादिनामित्यर्थः । व्योम्नि यथेति । यथोपाधिभिः क्षुद्रैश्छिद्रैरल्पत्वादय एव १. एवं दृष्टान्तदार्ष्टान्तिकयोरुक्तमपि साधर्म्यं यत्र यदंशेन तत्र तथा स्पष्टयन्ति यथा जलं तथा सर्वमिति । तत्राप्येतदिहोच्यत इति । तत्रापि साधर्म्येपि । एतज्जगत्तु त्रिविधमित्यारभ्य न चान्यथेत्यन्तेन वक्ष्यमाणं किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे तद्दृष्टान्तगङ्गाजले त्रिविधत्वाभावात् अत उच्यत इत्यर्थः । जगदिति पाठान्तरं पुस्तकद्वये । क्वचित् पाठद्वयमपि मूले नास्ति ।