षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 160, कुल 408 में से
संदर्भ में पढ़ें८ सिद्धान्तमुक्तावली । सिध्यतीति हृदयेनाहाग्रे देहादिसर्वविनियोगाशक्तौ आसमन्ताजानन्तोऽखण्डशब्दब्रह्मरूपं, न तु लौकिकशब्दरूपमिति नामस्वरूपं जानन्तस्तदेव विवक्तुन् विशेषेण वदन्तु। अधिकमा- हात्म्याद्यज्ञाने नाममात्रामृत कीर्तयन्तु । एतेनैव भगवत्स्वरूपतन्माहात्म्यादिकं ज्ञातं भवि- ष्यतीत्याशयेनाह नामस्वरूपम्। चिदिति। चिदित्युपलक्षणम् । सच्चिदानन्दात्मकमित्यर्थः । नामस्वरूपाज्ञाने तदुपदेष्टृगुरूपसत्तिः कार्येत्याशयेनाह महस्त इत्यादि। ते त्वत्सम्बन्धिनं सुमतिं निर्दोषपूर्णगुणत्वेन भवन्तं जानन्तं भगवद्भक्तं भजामहे । स च स्वतेजसा पराज्ञा- ननिरासक इत्याह मह इति। तेजोरूपमित्यर्थः । स्वहृदि सदा श्रीकृष्णप्राकट्येनोत्सवात्म- कमिति वा । एतेन ज्ञानिनां भक्तिमार्गप्रवेश एवोपदिष्टो भवति। एवमेव ‘तद्विष्णोः’ ‘तद्विप्रास’ इत्यादि श्रुतिसहस्रैर्निगद्यत इति सुष्ठूक्तं ज्ञानमार्गादधिको भक्तिमार्ग इति ॥१७॥१८॥१९॥ गङ्गादृष्टान्तस्य तात्पर्यान्तरमाहुः भक्त्यभाव इति । भक्त्यभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः । अन्यथाभावमापन्नस्तस्मात्स्थानान्नश्यति ॥ २० ॥ एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् । एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशयात् ॥ २१ ॥ इति श्रीवल्लभाचार्यविरचिता सिद्धान्तमुक्तावली सम्पूर्णा ॥ भगवत्सान्निध्यदेशेऽपि स्थितौ भक्त्यभावे तथा भवतीति भावः । एतेन भक्तेरा- वश्यकत्वमुक्तं भवति ॥ २० ॥ २१ ॥ इति श्रीपितृपादाब्जपरागरससिक्तहृत् । श्रीविठ्ठलस्तत्सिद्धान्तवाङ्मालां हृदये दधौ ॥ १ ॥ श्रीमद्गोकुलनाथकृतविवृतिटिप्पणी । इति श्रीपितृपादाब्जपरागारक्तचेतसा । श्रीवल्लभेन सिद्धान्तविवृतेर्विवृतिः कृता ॥ १ ॥ इति श्रीगोकुलनाथविरचिता सिद्धान्तमुक्तावलीटिप्पणी समाप्ता । १. अदलितनलिनीदलैव वापी यदहृतपल्लव एव काननान्तः । प्रियसखि न जगाम वामशीलः स्फुटममुना नगरेण नन्दसूनुः ॥ २ ॥ इत्यधिकं पद्यं क्वचित् । २ सक्तेति पाठः ।