षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 169, कुल 408 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः । सिद्धान्तमुक्तावली । श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । प्रणम्य पितृपादाब्जपरागमनुरागतः । कृपया विशदीकुर्मस्तद्वाङ्मुक्ताफलावलीम् ॥१॥ नत्वा हरिं प्रवक्ष्यामि स्वसिद्धान्तविनिश्चयम् । कृष्णसेवा सदा कार्या मानसी सा परा मता ॥ १ ॥ स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैर्बहुभिर्मिंथो विरुद्धैः सिद्धान्तैः शास्त्रार्थसन्देहे श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । प्रणम्य श्रीमदाचार्यान् प्रभून् श्रीविठ्ठलेश्वरान् । तत्कृपातो यथाबुद्धि तदुक्तीर्विण्वृणोत्ययम् ॥ १ ॥ अथ यच्छ्रीमदाचार्यचरणैर्भागवतार्थनिबन्धे वैदिकमार्गभक्तिमार्गौ निरूपितौ, निरोधसुबोधिन्यां च स्वतन्त्रभक्तिमार्गो निरूपितः, तत्किं तदर्थं तेषां विकल्पप्राधा- न्याय, आहोस्विदेकतरमुख्यत्वायेति स्वीयानां संशयस्य तत्प्रसङ्गानुप्रसङ्गपतितानां सेवास्वरूपतदधिकारादिविषयाणां संशयान्तराणां चोद्भवमवेक्ष्य तन्निवारणाय स्वसि- द्धान्तनिष्कर्षं सिद्धान्तमुक्तावलीग्रन्थे श्रीमदाचार्यचरणाः संक्षेपेण प्रकाशितवन्तः । तस्य ग्रन्थस्य दुर्ज्ञेयत्वमालोच्य श्रीमत्प्रभुचरणास्तद्विवरीतुं प्रकृतोपयोगि मङ्गलं शिष्यशिक्षार्थ- मुपनिबध्नन्तो विवरणं प्रतिजानते प्रणम्येत्यादि । अत्रानुरागतः प्रणामोक्त्या एतद्ग्र- न्थार्थविबोधेऽपि तस्यैव विघ्नविघातकत्वेन प्रकृतोपयोगित्वं द्योतितम् । कृपयेति । श्रीमदाचार्यकृपया । स्वीयोपरि स्वकृपया वा । अतःपरं मूलं विवरणीयम् । तत्रापि नत्वा हरिं प्रवक्ष्यामीतिमङ्गलघटितमेव प्रतिज्ञावाक्यम् । तत्रानुबन्धचतुष्टयं यद्यपि वक्त- व्यम्, तथापि तत्र स्वसिद्धान्तविनिश्चयमितिपदेन विषयस्योक्तत्वात् विषयविशेषणी- भूतेन स्वपदेनैव श्रीमदाचार्यचरणानुरक्तस्य तत्सिद्धान्तजिज्ञासोरधिकारिणोपि लाभाद्वि- षयोक्त्यैव प्रतिपाद्यप्रतिपादकभावस्य सम्बन्धस्यापि लाभात्प्रयोजनमेवानुक्तत्वादस्फुट- मवशिष्यते । तदप्युपसंहारवाक्ये ‘एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशया’दित्यनेन वक्ष्यते । तद् हृदि कृत्वात्र स्फुटीकर्तुं प्रतिज्ञावाक्यमेव व्याख्यातुमुपक्षिप्य व्याकुर्वन्ति अग्रे वक्ष्यमाणैरित्यादि । अग्र इति । ‘मायिकं सगुण’मित्यग्रिमग्रन्थे । शास्त्रार्थसन्देह १. विनिश्चितमिति पाठः । सि० मु० ३