षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 17, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३ श्रीहरिरायप्रणीतं टिप्पणम् । तद्भावभावनेन च तद्रूपत्वमिति भावः । वस्तुतो भावात्मा भगवान्, 'रसो वै सः' इति श्रुतेः। तदास्रूपत्वादेतेऽपि तथा। तथा श्रीममुनाऽपि द्रवीभूतरसात्मकतत्स्वरूपत्वेन । तत्र यथा भगवतीव श्रीममुनायामपि स्वामिनीभावेन स्त्रीरूपत्वं, तेन च तत्र सर्वाऽपि भगवल्लीला, भगवद्भावेन च भगवत्त्वं, विरहे भगवत्स्वरूपतद्दर्शनेन स्वामिनीसुखाय, तथाऽत्राऽपि प्राकट्यदशायां स्वामिनीभावेन सेवादिकृतौ तद्रूपत्वं, भगवद्भावेन भग- वद्रूपत्वं, विरहे तासामन्तरास्थ्यप्राकट्येन स्वरूपसम्बन्धिसुखदानायेति बोध्यम्। अत एवोक्तं श्रीवल्लभाष्टके—” यत्सादानन्ददं श्रीव्रजजननिचय' इति । यद्वा । आवि- र्भूतं स्वस्वहृदयेभ्यो बहिःप्रकटीभूतं यद्वृन्दावनं तत्प्रियं यासाम् । अन्तःस्थितावपि बहिःप्राकट्यस्यैवाऽभिलषितत्वात् । अत एव 'वृन्दावनं सखि भुवो वितनोति कीर्तिम्' (१०-२१-१०) इति ताभिर्गीतं।तथाच तादृक्तद्रूपत्वादस्मत्प्रभवोऽपि लीलाविष्करणा- भिलाषिण इति ज्ञेयम् । तातचरणा इति सम्बन्धिनिरूपणं तु पुष्टिमार्गीयाचार्य- करुणासिद्धिर्यथाकथञ्चित्सम्बन्धसिद्ध्यैव भवति न त्वन्यसाधनैरिति बोधनाय । देहेन भावतो वाऽपि सम्बन्धः फलसाधकः । पुष्टिमार्गे नाऽतिरिक्तं साधनं साधकं ततः ॥ १ ॥ नायमात्मेत्युपनिषन्निषेधति यतोऽखिलम् । नन्दादयो देहजेन प्रादुर्भावेन गोपिकाः ॥ २ ॥ मयीति तत्कृपायोग्यत्वबोधनाय । सर्वसाधनराहित्येन केवलं तदीयत्वाद् अत एवैकवचनम्, अत एव सप्तश्लोक्यां 'तनोतु निजदासस्य सौभाग्यम्'इति श्रीपुरुषोत्तम प्रणीता विवृतिः। 'पररूपं तकारो लचटवर्गेषु'—तकारः पदान्तो लचटवर्गेषु परे पररूपमापद्यते— इति कौमारसूत्रात् । आवश्यकत्वमपि विवृतेरेतेनैव ध्वनितम् । आविर्भूतवृन्दा- वनप्रिया इति । अत्र वृन्दावनस्य प्रियः, वृन्दावनं प्रियं यस्येति वा वृन्दावनप्रियः, आविर्भूतश्चाऽसौ स च आविर्भूतवृन्दावनप्रिय इति तत्पुरुषबहुव्रीह्यन्यतरगर्भः कर्म- धारयः । तथाच तदभिन्ना इत्यर्थः । अत्र भगवत्पक्षे अभेदो वास्तवः । 'वस्तुतः कृष्ण एवे'त्याद्युक्तेः । व्रजभक्तपक्षे तद्भाववत्त्वकृतसारूप्यनिबन्धनः । 'तत्सार- भूते'ति नामनिर्देशात् । तातचरणा इत्यत्र चरणपदं बहुवचनं च पूजार्थम् । 'जीवत्सु तातपादेषु', 'मुद्रे ब्रूहि सलक्ष्मणाः कुशलिनः श्रीरामपादा' इत्यादि- प्रयोगदर्शनात्, 'एकत्वं न प्रयुञ्जीत गुरावात्मनि चेश्वरे' इति वाक्याच्च 'जात्या-
१ तासामन्तरा स्वप्राकट्येनेति ग. २ तादृग्रूपत्वादिति ग.घ. ३ तन्मयत्वादिति ग-घ.