षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 171, कुल 408 में से
संदर्भ में पढ़ेंश्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । १९ अत एव न कर्मणीवात्र कालपरिच्छेदोऽस्तीत्याहुः सदेति । आवश्यकार्थण्यत्प्रत्यया- न्तकार्यपदोक्त्या तदकरणे प्रत्यवायी भवतीति भावो ज्ञाप्यते । सा च फलरूपा साधनरूपा चास्ते । तत्र मानसी सा परा फलरूपेत्यर्थः । यथा व्रजसीमन्तिनीनाम् । तदेव तत्प्राण- नाथेन गीतं 'ता नाविदन्मय्यनुषङ्गबद्धधियः स्वमात्मानमदस्तथेद' मित्यादिना ॥ १ ॥ श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । धिकारस्तेषामुच्यते । तेन सर्वेषां चेतनानां जीवानां दासत्वमक्षुण्णमित्यर्थः । तदेतदभि- सन्धाय सदापदाशयमाहुः अत इत्यादि । कार्यपदतात्पर्यमाहुः आवश्यकेत्यादि । आवश्यकाधमर्ण्ययोर्णिनिरित्यर्थद्वयं प्रस्तुत्य 'कृत्याश्चे'ति सूत्रे कृत्यप्रत्यया विहिताः । तत्रावश्यकत्वं नाम पूर्वं कथञ्चित् ज्ञातस्य पश्चात्तदभावेऽनिष्टजननज्ञानपूर्वकज्ञानविषयत्वं वा, तथा कृतिविषयत्वं वा, नतु विधिविषयत्वमात्रम् । प्रैषानुवादसूत्रेणैव तदर्थलाभे- नास्य सूत्रस्य वैयर्थ्यप्रसङ्गात् । अतस्तदर्थकण्यत्प्रत्ययान्तकार्यपदोक्त्या तदकरणे प्रत्यवायी भवति । प्रत्यवायस्य पातकत्वात्तेन भक्तिमार्गाद्भ्रश्येतेति भावो ज्ञाप्यते । तथा च स्वस्मिन् भगवद्दासत्वमनुसन्धाय सेवायां च स्वतन्त्रपुरुषार्थत्वमावश्यकदासधर्मत्वं चानुसन्धाय सर्वकालं सेवाकरणं साधननिष्कर्ष इत्यर्थः । नन्वत्र सेव्यसन्तोषजनिका पूर्वोक्तप्रकारककायादिव्यापाररूपा क्रिया सेवात्वेन विवक्षिता । यथा राजसेवा गुरुसे- वेति । तस्याः सर्वदा कार्यत्वकथनमशक्योपदेशरूपमित्याशङ्क्य, तत्र समाधिं वदन्ती- त्याशयेनाग्रिमं वाक्यं व्याकुर्वन्ति सा चेत्यारभ्य इत्यादिनेत्यन्तम् । तथाच कायादित्रितय- व्यापाररूपापि विचार्यमाणा बाह्याभ्यन्तरभेदेन द्विधा । तयोराभ्यन्तरी मानसी बाह्यायाः फलरूपा । बाह्या तु तत्साधनरूपा । तयोरवान्तरफलरूपत्वं सर्वदा कार्यत्वं च फला- ध्यायाद्यपादे 'आवृत्तिरसकृदुपदेशा'दित्यस्य प्रथमवर्णके सिद्धम् । तत्र हि 'द्रष्टव्य' इति पदेन श्रवणादीनां फलरूपं दर्शनं पूर्वमुक्त्वा, 'श्रोतव्य' इत्यादिना तत्साधनानां पश्चा- त्कथनेनात्मनः परोक्षमपि ज्ञानमवान्तरफलरूपं ज्ञानमार्गे । भक्तिमार्गे तु परमफलरूपज्ञान- सजातीयत्वेनापि फलमध्यपात्येव श्रुत्यभिमतम् ।१ अत एव 'सूत्रकृदपि फलप्रकरणे साधन- विचारं चकारे'ति कथनादसकृदुपदेशकथनाच्च । मानस्याः मुख्यत्वं च साधनाध्याये सहकार्यन्तराधिकरणे । श्रुतौ कायिकं वाचिकं मानसिकं च साधनं विधीयते । तत्र मानसं मुख्यम् । 'मनसैवावाप्तव्य'मिति श्रुतेः । तस्यापि स्नेहोदयपर्यन्तमेव विहितत्वेन कर्तव्यता । तदुत्तरं तु स्वत एव तत्सम्भव इति निर्णयात् । पुष्टिमार्गे तु तस्य या परा काष्ठा, सात्र 'यथा व्रजसीमन्तिनीना'मित्यादिना दर्शिता । यदि हि प्रकारान्तरं तत उत्कृष्टं भगवदभिप्रेतं स्यात्, तदा भगवान् 'अथैतत्परमं गुह्य'मित्यत्र 'सुगोप्यमपि वक्ष्यामी'ति प्रतिज्ञायैतमेव प्रकारं तथात्वेन न वदेत्, अतस्तथा । तेन साधनरूपाया असकृदावर्तनमेव सदा कार्यत्वम् । मानस्यास्तु भगवति मनोगत्यविच्छेदरूपम् । तच्च बाह्याया आवर्तनात्साधनीयम्, अतो नाशक्योपदेशरूपत्वमित्यर्थः ॥ १ ॥ १ काले इति पाठः ।