षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 174, कुल 408 में से
संदर्भ में पढ़ें२२ सिद्धान्तमुक्तावली ।
यशोदोत्सङ्गलालितो, न त्वन्य इति ज्ञापनाय मूलनामोक्तम् । अत्र भेदकं रूपमाहुः सच्चिदिति । एते हि भगवद्धर्मात्मकाः, प्रकटतन्नित्यात्मकमक्षरं ब्रह्म । अत एव प्रपञ्चस्त- दात्मक इति सच्चिदानन्दात्मकत्वं तस्मिन्नुच्यते । एतावान्परं विशेषो, जडे सदंशः प्रकटः, इतरावाच्छन्नौ; जीवे त्वाद्यौ प्रकटौ, आनन्दांशस्तिरोहितः; परमात्मनि त्रयं स्फुटमिति । कप्रत्ययेन गणितानन्दत्वमेव, न तु पुरुषोत्तमवत् पूर्णानन्दत्वमिति ज्ञाप्यते । कृष्णशब्देनैव पुरुषोत्तमस्वरूपं निरूपितमित्यक्षरस्वरूपं निरूपयन्ति द्विरूपमिति । तत् अक्षरं ब्रह्म ।
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । स्वेन रूपेणाभिनिष्पद्यते । स उत्तमः पुरुष' इत्यादिश्रुतेः, 'यस्मात्क्षरमतीतोऽहमक्षराद- पि चोत्तमः ।' 'उत्तमः पुरुषस्त्वन्यः' 'परं ब्रह्म परं धामे'त्यादिस्मृतेश्च परं ब्रह्म, नत्वन्यः 'वृष्णीनां वासुदेवोऽस्मि' 'रामकृष्णाविति भुवो भगवानहरद्भर'मित्याद्युक्तो विभूत्यादि- रूपो न इति ज्ञापनाय मूलस्य परब्रह्मणो नामोक्तम् । यदि हि सोऽवतारः स्यात्, तदा यदुवंशोद्भवो मुख्य इति यादवतापिन्युपनिषत्स्यात्, गोपरूपेण च नाविर्भवेदिति । अतस्तत्रावतारत्वं न ज्ञेयम् । अक्षरं च परब्रह्मत्वेन न ज्ञेयमित्यर्थः । ननु 'सच्चिदान- न्दरूपाय कृष्णायाक्लिष्टकर्मणे' इति तापनीयश्रुतिवत् 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति तैत्तिरी- येपि श्रावणादक्षरकृष्णयोः स्वरूपलक्षणैक्यादभेद एवाङ्गीकार्य इत्याशङ्कां निवारयन्ती- त्याशयेनाग्रिमभवतारयन्ति अत्रेत्यादि । सच्चिदानन्दकं बृहदित्यत्रापि देहलीदीपवत् हिशब्दः सम्बध्यत इत्याशयेन व्याकुर्वन्ति एते हीत्यादि, ज्ञाप्यत इत्यन्तम् । हिर्हेतौ । एत इति । सच्चिदानन्दाः । कप्रत्ययश्च प्रतिकृतौ 'इवे प्रतिकृता'वित्यनेन भवति । कुत्सापक्षेऽपि प्रतिकृतित्वादेव हीनताद्योतनम् । तथा चानन्दमीमांसायां शतानन्दिभ्य आधिक्येपि 'ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्द' इति गणनापरिच्छेदस्य तैत्तिरीये श्रावणात्, बृहदारण्यके च 'ते ये शतं प्रजापतिलोक आनन्दाः, स एको ब्रह्मलोक आनन्द' इति तदानन्दिनो लोकत्वेन विशेषितत्वात्, ततः परस्य च 'यतो वाचो निव- र्त्तन्ते अप्राप्य मनसा सहे'त्यनेनापरिच्छिन्नानन्दत्वश्रावणात्तयोः स्वरूपैक्येपि भेद एव पर्यवस्यति । इदं यथा तथा समन्वयाध्याये अदृश्यत्वाद्यधिकरणे प्रपञ्चितम् । तेनाभेदोऽ- प्यमित्रादिवत् भेदविरुद्धसम्पद्रूपस्तादात्म्य एव पर्यवस्यति । तेनाक्षरस्य पुरुषोत्तमान्यून- त्वमप्यक्षुण्णमिति तदेव भेदकमित्यर्थः । एवमत्र भगवतः कृष्णस्य परब्रह्मत्वकथनेन फलनिष्कर्ष उक्तः । अतः परमवान्तरप्रमेयनिष्कर्षं वदन्तीत्याशयेनाग्रिमभवतारयन्ति कृष्णशब्देने- त्यादि । निरूपितमिति । मुख्यप्रमेयत्वेन फलत्वेन च निरूपितम् । निरूपयन्तीति । अवान्तरप्रमेयत्वेन निरूपयन्ति । व्याकुर्वन्ति तदित्यादि । तत् अक्षरं ब्रह्म द्विरूपम् । अथ परा, यया तदक्षरमधिगम्यते, यत्तददृश्यमग्राह्यम् । एतद्वै तदक्षरं गार्गि अस्थूल-