षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 178, कुल 408 में से
संदर्भ में पढ़ेंगङ्गायां प्रवाहमध्य एव ( देवतारूपा गङ्गा ) प्रत्यक्षा भवतीत्यर्थः । एतेन प्रपञ्चमध्य एव भगवदाकारभगवद्भक्तयोर्दर्शने भगवति स्नेहातिशयेन तत्र भगवदभेदबुद्धये तत्र भगव- त्प्राकट्यं भवतीति भावः सूच्यते । अग्रिमव्यवस्थामाहुः प्राकाम्यमिति । स्वाभीष्टसर्व- स्वरूपायाः स्थानभूतत्वेन ज्ञानात्तज्जले सर्वत्रानिषिद्धयथेष्टव्यवहारः स्यादित्यर्थः । एवमेवो- क्तप्रकारकभगवद्दर्शने सर्वत्र तद्भावः स्फुरतीति भावः । विहितेति । भक्त्या गङ्गादर्श- नानन्तरं प्रवाहरूपाया अपि दर्शनं विहितात्स्वर्गापवर्गरूपात्फलाद्विशिष्यते । तद्धृदीत्यर्थः । यद्वा । येषां न प्रत्यक्षा, तेषामपि तया देवतारूपया सा तत्रास्तीति तत्सम्बन्धानुभा- वेनैव तज्जले प्राकाम्यं प्रकृष्टकामविषयत्वं श्रद्धाविशेषपूर्वकस्नानादिव्यवहारो भवतीत्यर्थः । श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । तस्य च तपस्यत एव प्रकटा बभूव । अतोऽन्यत्रापि तथेत्यर्थः १) मूले भक्तिपदमात्रक- थनात्क्वचित्पद उद्रेकदशारूपविशेषबोधनमयुक्तमिवाभातीत्यरुच्या पक्षान्तरमाहुः अथवे- त्यादि । ननु यदि गृहादिष्वपि गङ्गादर्शनं भक्त्यैव स्यात्, सर्वेषां भक्तानां स्यात्, तत्तु नेति कथमेवमित्याकाङ्क्षायां वदन्तीत्याशयेनाग्रिममवतारयन्ति भक्तविशेष इत्यादि । व्याकुर्वन्ति देवतेत्यादि । प्रवाहमध्य एवेति । प्रवाहसम्बन्धिन्येव गङ्गाद्वारादिरूपे क्वचिद्देशे । मूले गङ्गायां चेति । चोऽवधारणे । विशेषपदस्यार्थष्टीकायां भक्त्युद्रेक- पदेन विवृतोऽवगन्तव्यः । एतावत्कथनप्रयोजनमाहुः एतेनेत्यादि । एतेनेति । भौतिक्यां गङ्गायामेवाधिदैविकगङ्गास्वरूपप्राकट्यबोधनेन । तत्रेति । भगवदाकारे भगवद्भक्ते च । अग्रिमव्यवस्थामिति । आधिदैविकरूपस्थितिकार्यम् । प्राकाम्यमिति । प्राकाम्यं बाहुल्यम् । 'प्रकामसुभगत्वाद्गात्रसंश्लेषत' इत्यादिप्रयोगदर्शनात् । तदत्र किं विवक्षितमि- त्याकाङ्क्षायां विवृण्वन्ति स्वाभीष्टेत्यादि । तथा च तादृग्भक्तप्रत्यक्षया तया गङ्गया कृत्वा तज्जले भक्तस्यानिषिद्धव्यवहारबाहुल्यरूपं प्राकाम्यं स्यादित्यर्थः । एतत्कथन- प्रयोजनमाहुः एवमित्यादि । अग्रिमार्धं व्याकुर्वन्ति भक्त्येत्यादि । तथा चैवं भगवतः कृष्णस्य साक्षात्कारानन्तरं ज्ञानफलान्मोक्षादपि प्रपञ्चे सर्वत्र भगवदधिष्ठानत्वरूपेण ज्ञानं विशिष्यत इति भावः । मूले चोप्यर्थे । तदिति, गङ्गादर्शनम् । हिर्निश्चये । यथा- तथापदयोरध्याहारः । तथा च हि निश्चयेन तत्तादृशभक्त्या गङ्गादर्शनं विहितादपि फलात्प्रतीत्यापि यथा विशिष्यते, तथा तया जले प्राकाम्यं स्यादिति मूलयोजना । अस्मिन् व्याख्यानेऽध्याहारादिदोषादरुच्या प्रकारान्तरेण व्याकुर्वन्ति यद्वेत्यादि । अस्मिन्पक्षे प्राकाम्यं नाम प्रकृष्टः कामः प्रकामस्तस्य कर्म । 'गुणवचनब्राह्मणादिभ्यः कर्मणि चे'त्यनेन 'भावे कर्मणि चे'त्यर्थद्वयेऽनुशासनादत्र कर्मणि ष्यञ् । तदेव विवृतं प्रकृष्टेत्यादिना । तथाच यथा तयैवं तथा प्रपञ्चेऽपि यत्र भगवत्सम्बन्धानुभवः, तत्र भगव- त्स्वरूपे गुर्वादौ च श्रद्धापूर्वको व्यवहारः श्रद्धालुनामिति भावः । अग्रिमं विवृण्वन्ति १ तथा । देवतारूपा सेति पाठः ।