भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 180, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 180

२८ सिद्धान्तमुक्तावली । तेन तद्गुणनियामकत्वेन ब्रह्मादयो भगवतैव कृता इत्यर्थः । ब्रह्मैकरूपमिति तन्निष्ठानां नियामको हरिरवे । ये तु भगवद्भक्तास्तेषां स्वात्मनि स्वात्मविषये ऐहिके पारलौकिके चार्थे श्रीकृष्ण एव कामचार इत्यर्थः । सर्वत्र नियामकः स एवेति भावः । अथवा । भक्तानां श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । 'तत्र सत्त्वं निर्मलत्वा'दिति गीतोक्तलक्षणको यो बन्धकत्वस्वभावो गुणानां, तेन स्वभावेन प्रकटम् । मूले प्रोक्तमिति । भगवच्छास्त्रे, ब्रह्मसूत्रभाष्ये च । तेन हेतुना तत्तद्गुणनि- यामकत्वेन ब्रह्मादयो भगवता सर्वान्तर्यामिणा सर्वनियामकत्वेन कृताः । ततः तस्मा- ज्जगत्त्रैविध्यादेव हेतोः देवतारूपपदाधिदैविकत्वेन कूर्मादौ 'लीलया परमेश्वरा ' इत्येवं प्रोक्ताः । वस्तुतस्तु भगवानक एव नियामक इत्यर्थः । तथा च तेषां गुणाभिमा- नित्वे 'गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात् । वर्तन्तेऽनुयुगं येषां वश एतच्चराचर' मित्युक्तं कालभयम् । गुणावताराणां तु त्रिविधेषु पुराणेषु प्रकृतिपुरुषनियामकतया प्रसिद्धानां न तत् । ते गुणाभिमानितो भिन्ना एव । अतो यथा 'द्वा सुपर्णा'इत्यादौ जीवान्तर्यामिणोः कचिद्भेदः, कचिच्च 'तदनुप्रविश्य सच त्यच्चाभव'दिति प्रविष्टस्यैव कार्य- भेदेन जीवान्तर्यामिभाव इति कल्पभेदेनोभयम्, तथा च यस्मिन्पक्षे भेदस्तं पक्षमादाय दृष्टान्त उपपद्यत इति भावः । एवं दृष्टान्तं व्याकृत्य ब्रह्मण्येत्थं हरिमैत इति दार्ष्टान्तिकं व्याकुर्वन्ति ब्रह्मैकेत्यादि । तथाच मुण्डके पुरुषाक्षरयोः परापरभावस्य श्रौतत्वादक्षर- नियामकत्वं मूलपुरुषे सिद्धम्, तस्य कृष्णत्वं च तापनीये, अतस्तथेति । तन्निष्ठानां नियामको हरिरवे मतो युक्त्यानुचिन्तित इत्यर्थः । नन्वेवं सति देव्या यथा रूपद्वय- नियामकतामात्रम्, न तु भक्तं प्रति स्वतः किञ्चित् फलम्, तथा कृष्णाद्भगवतोऽपीति तत्सेवा कुत उपदिष्टेति शङ्कोत्तिष्ठति, तन्निवृत्त्यर्थमाहुः मूले कामचार इति । तुः उक्त- शङ्कानिरासे । अस्मिन् लोके त्रिविधे जगति, ब्रह्मादिभ्योऽधिष्ठातृभ्यः, कामचारः काम इच्छा उपासकादीनां तेन चारः चरणम्, 'चर गतिभक्षणयोः', तत्तल्लोकविषयिणी प्राप्ति- र्भोगो वा । न चान्यथा । च पुनः, अन्यथा ब्रह्मादिभ्यो विना, न तत्कामविरुद्धप्रकारेण च न, किन्तु तदिच्छाप्रकारेणैव । यथा भवतीति दृष्टान्तदार्ष्टान्तिकप्रकरणबलादध्याहार्यम् । तु पुनः । तथा स्वात्मनीति तादर्थ्ये सप्तमी, 'चर्मणि द्वीपिनं हन्ती'त्यादिवत् । तथा च स्वस्य भक्तस्यात्मविषयेऽर्थे । परमानन्दरूपे नित्यनिरवधिसुखरूपे । भूम्नि कृष्ण एव, न तु लोकादौ कृष्णात् निश्चयपूर्वककामचार इत्यर्थः । तदेतद्व्याकुर्वन्ति ये त्वित्यादि । अत्र निश्चयपदं कामचारपदेन विवृतम् । तेन यौगिकं तदिति बोधितम् । तथा च निष्क्रान्तश्च- यात् निश्चयः । चयो हि बहूनामेकीकरणम् । तेन बहूनां कामानामेकीकरणरूपाच्चयान्नि- ष्क्रान्तः । परमानन्दकृष्णैकनिष्ठतया तदेकविषयकः कामचार इत्यर्थः सिध्यति । 'रूढियों- गमपहरती'त्यरुच्या निश्चयपदं प्रकारान्तरेण व्याकुर्वन्ति अथवेत्यादि । अस्मिन्पक्षे स्वात्म- नीति कृष्णपदविशेषणम् । निश्चयपदमेककोटिकत्वाच्छङ्काविरुद्धज्ञानार्थकम् । तद्विषयत्वेन