षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 184, कुल 408 में से
संदर्भ में पढ़ें३२ सिद्धान्तमुक्तावली । आत्मानन्दसमुद्रस्थमिति । श्रीकृष्णपदात्पुष्टिमार्गीयभक्तप्रकटितनिरवध्यानन्देषु विहरन्त- मित्यर्थः । ते तु व्रजरत्नात्मका इति मन्मतिः । स आनन्दो भगवत्स्वरूपात्मकस्तद्दत्त एव । अत आत्मपदं भगवत्परम् ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ स्वस्वरूपज्ञानप्रभुस्वरूपज्ञानाभाववान् भक्तोऽपि पुष्टिमर्यादाभेदेन द्विविधः । उभयोश्चित्तचाञ्चल्याभावायाहुः ज्ञानाभाव इति । ज्ञानाभावे पुष्टिमार्गी तिष्ठेत्पूजोत्सवादिषु ॥ १७ ॥ श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । स्वप्रतिष्ठस्यैव फलताया भूमविद्यायां सिद्धत्वात्तथाविधतत्परम् । एवमेनेनोपदेशवाक्यं व्याख्यातम् । लोकार्थीति श्लोकस्तु संसारिमध्येऽपि यो जघन्याधिकारी तत्पर इत्युपेक्षितः, परं तत्रायमर्थः । लाभपूजार्थयत्नस्योपधर्मत्वदेवलकत्वादिसम्पादकत्वात्तद्व्यतिरिक्तेनानिषिद्ध- प्रकारेण 'ऐहिकं मे भवत्वि'त्यनुसन्धाय प्रवृत्तो लोकार्थी, तादृशश्चेत्कृष्णं भजेत्, तदा सर्वथा क्लिष्टो भवति, भगवत्प्रियाचार्यमार्गस्थत्वेन तदुपरि कृपया 'यस्यानुग्रहमिच्छामि हरिष्ये तद्धनं शनै'रिति न्यायेन वा, तन्मौढ्येन दुराग्रहादिना भगवदुपेक्षायां दृष्टादृष्टाभ्यां वा सर्वैः प्रकारैर्लौकत एव क्लेशं प्राप्नोति । तत्राद्यस्तु क्लिष्टोऽपि लोकाद्विरज्य चेत् भजेत् कृष्णम्, तदोक्तन्यायेनैव सर्वप्रकारैर्लौको बाह्य आन्तरश्च नश्यति, ततो 'मत्परैः कृतमैत्रस्य करिष्ये मदनुग्रह'मिति न्यायेनेह परत्र वा प्रतिबन्धरहितानुग्रहविषयो भवतीति । अन्यस्तु दुराग्रहादिदोषेण तत्सेवायां प्रभुणा अनङ्गीकारेपि आचार्यदयया 'नैवात्मनः प्रभुरयं निजलाभपूर्ण' इत्युक्तन्यायेन तत्कृतस्य स्वगामित्वेन भजनवैयर्थ्यासम्भवाज्जन्मान्तरे अनु- ग्रहविषयो भवतीति । अत्रैवं मम प्रतिभाति । संसारीत्यस्य व्याख्याने तथापीत्यादिज्ञेयमित्यन्तेन यदुक्तं तदस्यैव श्लोकस्यार्थ इति । तेन संसारी त्रिविधः । संसारनिवृत्तिकामो भक्त एकः । लोकार्थी सेवाग्रही द्वितीयः । सेवानाग्रही तृतीयः । तेषां त्रयाणां तत्फलमुक्तमिति ॥१६॥ एवमत्र जघन्याधिकारिव्यवस्थामुक्त्वा मध्यमाधिकारिणो ज्ञानं सहकारित्वाद्वश्य- श्यकमिति तदभावे तस्य कथं फलमित्याकाङ्क्षायां तस्य फलार्थ प्रकारमुपदिशन्तीत्याशयेना- ग्रिममवतारयन्ति स्वस्वरूपेत्यादि । मूलार्थस्तु स्वस्वरूपभगवत्स्वरूपयोर्ज्ञानाभावे पुष्टि- मार्गी श्रीभागवततत्परः सन् पूजोत्सवादिषु, एकादशे ऊनत्रिंशेऽध्याये 'यथाञ्जसा पुमान् सिध्येत्तन्मे ब्रूह्यञ्जसाऽच्युते'ति प्रश्ने, ये भगवता 'हन्त ते कथयिष्यामि मम धर्मान् सुम- ङ्गलान् । यान् श्रद्धयाचरन्मर्त्यो मृत्युं जयति दुर्जय'मित्युक्त्वा, 'कुर्यात्सर्वाणि कर्माणि मदर्थं शनकैः स्मर'न्नित्यादिना भगवद्धर्मा उक्तास्तेषु तिष्ठेत् । यद्यपि तत्र पूर्वमन्ये- प्युक्ताः, तथापि तेष्वशक्तौ 'पृथक्सत्रेण वा मह्यं पर्वयात्रामहोत्सवा'नित्यादिनोक्तेषु,