षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 186, कुल 408 में से
संदर्भ में पढ़ें३४ सिद्धान्तमुक्तावली । दूरतरः । तस्य अक्षरातीतत्वात् । अत एवार्जुनेन पुरुषोत्तमाक्षरभजनयोस्तारतम्यं पृष्टः स्वभजन आधिक्यमाह गीतासु द्वादशेऽध्याये । गङ्गायां च क्षराक्षरपुरुषोत्तमतारतम्यदृष्टान्तः स्पष्टः । न हि देवी तीर्थात्मिका जलात्मिका वा, किन्तु जल एव तीर्थात्मकत्वं जानन् ज्ञानी भवति । तदतीतदेवतात्मकदर्शने भक्तत्वम् । न हि भक्त्या देवताद्रष्टुस्समः पूर्वो भवति । अत एव पुरुषोत्तमं मां जानन् मामेव सर्वभावेन भजतीति 'यो मामेवमसंमूढ' इत्युपक्रम्य 'भजति मां सर्वभावेने' ति प्रभुरुक्तवान् । अतो ज्ञानमार्गीयस्यापि पुरुषोत्तम- विदोपि भक्तिनिष्ठैव फलमिति किमितोऽधिकं वाच्यम्, अनेकप्रमाणसिद्धत्वादिति विद्वद्भिर्ज्ञेयम् । ऋग्वेदेपि पठ्यते 'तमु स्तोतारः पूर्व्यं यथाविद ऋतस्य गर्भं जनुषा पिपर्तन । आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ।' हे स्तोतारो मदुत्कर्षवर्ण- नपराः पूर्व्यं सर्वकारणकारणरूपं तं लोकवेदप्रसिद्धं पुरुषोत्तमं भवन्तो यथावद्विदन्ति तत्स्वरू- पमिति तथाभूताः । ऋतस्य सूनृतवाणीरूपस्य वेदस्य गर्भरूपम् । स्वोदरस्थं वेदं विश्वहितार्थं ब्रह्मणे उपदिष्टवानिति तथा । जनुषा स्वजन्मनेव सम्पूर्णेन, न तु क्षणयाममात्रेण । पिपर्तन पूर्तियुक्तं सन्तुष्टं कुरुत । अत्र यथावित्त्वोक्त्या पूर्णज्ञानानां देहेन्द्रियप्राणान्तःकरण- जीवांस्तदर्थमेव तद्भजनार्थमेवोपयुक्तान् कुरुतेति भक्तिमार्गे विनियोगमुपदिशति । तेन श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । मानमाहुः अत एवेत्यादि । तथा च यद्यक्षराहंग्रहोपासनतः 'सर्वं ब्रह्मे'त्युपासनतश्च भक्तेस्तन्मार्गीयोपासनायाः स्वविषयकाया आधिक्यं न स्यात्, तदा भगवान् 'मय्या- वेश्य मन' इत्यारभ्य स्वोपासकस्य युक्ततमत्वम्, अक्षरोपासकस्य क्लेशम्, सर्वसंन्यास- पूर्वकं ये स्वपरास्तेषां शीघ्रं संसारादुद्धारम्, स्वस्मिन्मनोनिवेशनादिना तेषां स्वस्मिन्नि- वासम्, तदनुकल्पकथनेन तस्यैवावश्यकत्वं च न वदेत्, अतस्तथेत्यर्थः । एतेन ज्ञाना- धिको भक्तिमार्ग एवमिति व्युत्पादितम् । तस्मान्निरूपित इति विवृण्वन्ति गङ्गा- यामित्यादि । अग्रिमं स्पष्टम् । अस्मिन्नर्थे श्रुतिमपि प्रमाणत्वेन वदन्ति व्याकुर्वन्ति च । ऋग्वेदेपीत्यादि, हे स्तोतार इत्यादि च । गर्भरूपमिति । तस्मिन्नर्थरूपतयान्तःस्थित- म् । तत्र हेतुः स्वोदरस्थमित्यादि । उपदिष्टवानिति । स्वज्ञापकतया बोधितवान् । एतदुपबृंहितमेकादशस्कन्धे चतुर्दशाध्याये 'कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता । मयादौ ब्रह्मणे प्रोक्ते'ति । एकविंशे च 'मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते ह्यहम् । एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदा । मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदती'ति । शेषमतिरोहितार्थम् । एवमत्र मुख्यमध्यमाधमजघन्यातिजघन्याधिकारिकृतसाधनस्य फलपर्यन्त- व्यवस्थाकथनेन स्वतन्त्रभक्तिमार्गस्यैवोत्कर्षो व्युत्पादितः । तेन स एव मुख्यः, इतराणि त्वनु- कल्परूपाणि जघन्यार्थानि । तत्रापि निष्कपटा तनुवित्तजसेवैव सुगमं साधनमिति साधितम् । अतःपरं तनुवित्तजाया यथाकथञ्चित्करणे यदि भक्तिर्न भवति, स्फुटमेव