षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 19, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । ५ वाऽऽहुर्नमामीति । भगवताऽष्टविधैश्वर्यं कालिन्द्यै दत्तमिति ज्ञाप- श्रीहरिरायप्रणीतं टिप्पणम् । वृत्तये वा तथोक्तिः । कलिं दोषं द्यति खण्डयतीति कलिन्दस्तस्याऽपत्यमिति तादृग्धर्मवत्त्वेन भक्तप्रतिबन्धनिवर्त्तकत्वात् । अत एवाऽग्रे 'हरिप्रियकलिन्दये'त्यत्र तथैव व्याख्यातं प्रभुभिः । अनेन कालिन्दीपदस्याऽस्यां न धर्मवाचकत्वेन नामत्वं किन्तु धर्मविशिष्टतद्वाचकत्वेन विशेषणत्वमिति सूचितम् । स्तोतुकामा इति काम एव पूर्वं निरूपितः। अग्रे तु स्वरूपमाहात्म्यस्फूर्त्या स्तुतिकरणमशक्यमिति 'स्तुतिं तव करोति कः' इत्यनेन निरूपणीयमिति भावः । श्रीगोकुलेश इति । पुष्टिमा- र्गीयो लोकवेदाप्रसिद्धः पुरुषोत्तम एतत्पदेनोक्तः । तत्र लीलासृष्टिप्रवेशमन्तरा गम- नाभावेन साक्षात्कारासम्भवात्परोक्षास्थितैर्नमनमेव स्वदैन्याविष्कृतये कार्यं यथा, तथा लीलासृष्टिप्रवेशमन्तराऽत्राऽपीति भावः । अत एवाऽऽचार्यवर्यैः-'नमो नमस्ते- ऽस्त्वृषभाय सात्वताम्'ति द्वितीयस्कन्धीयपद्यविवृतौ 'गमनाभावान्नमनाधिकार' इत्यभिहितम् । आदाविति । अग्रे तु 'मम मनः सुखं भावय' 'ममाऽस्तु तव सन्निधौ तनुनवत्वमि'त्यादि प्रार्थनीयमिति भावः। नमनमेवेत्येवकारः पूर्वमग्रिमप्रार्थनीयास्फू- र्त्या तदतिरिक्तव्यवच्छेदार्थः । अष्टविधैश्वर्यमिति । भगवता दत्तमिति । अत्राऽयं भावः। भगवान् हि लोके स्वस्य रसात्मकं रूपं तादृशीं लीलां च प्रकटयितुं प्रादुर्भूय सर्वात्मभाववतीषु तथा लीलां चकार। तत्र तदधीनत्वमङ्गीकृत्य सर्वाऽपि कृतिस्तद- तिरिक्तास्फूर्तिश्च । अन्यथा रसात्मकत्वं न स्यात् । एवं सति सर्वमेतदैश्वर्यविरोधीति लीलासृष्टौ तत्कार्यार्थं लीलोपयोगिन्यां स्वामिनीभगवत्सम्बन्धिन्यां श्रीयमुनायां तत्स्थापितवानिति भगवता दत्तमित्युक्तम् । स्वयं तु रसात्मकत्वेन तदधीनस्तदतिरि- श्रीपुरुषोत्तमप्रणीता विवृतिः । रूपमुक्तम् । अनेन स्तोत्रेण स्तुत्या प्रसन्ना स्तोतॄणां लीलासम्बन्धं कारयिष्यतीति च ध्वनितम् । श्रीगोकुलेशपदेन 'अन्व्हापृतं निशि शयानम्'ति वाक्योक्तं निःसाधनफलात्मकं 'तस्मान्मच्छरणं गोष्ठम्'त्याद्युक्तं दीनबन्धुत्वं च बोधितम् । न कर्तुं शक्यमित्यनेन साधनान्तराणां फलानुपधायकत्वम् । अतिदेशेन तद्धर्मव- त्त्वम् । नमनपदेन कायादित्रयव्यापारात्मकमात्रं नमनं सङ्गृह्यतेऽतो न चोद्यावसरः । आदौ नमनोक्तेरयमेवाऽऽशय इत्यत्र गमकमाहुः-भगवतेत्यादि । अन्यथा श्लोकस- १ धर्मवाचकत्वेनेति ख-ङ. २ पूर्वनिरूपित इति ग-घ. ३ स्तुतिकरणमप्यशक्यमिति क-ख-घ-ङ. ४ परोक्षस्थितैर्जीवैरिति च. ५ भा. स्कं. २-४-१४.