षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 193, कुल 408 में से
संदर्भ में पढ़ेंश्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ४१ सच्चिदिति । एते हि भगवद्धर्मात्मकाः, प्रकटतत्रितयात्मकमक्षरं ब्रह्म । अत एव प्रपञ्चस्त- दात्मक इति सच्चिदानन्दात्मकत्वं तस्मिन्नुच्यते । एतावान्परं विशेषो, जडे सदंशः प्रकटः, इतरावाच्छन्नौ; जीवे त्वाद्यौ प्रकटौ, आनन्दांशस्तिरोहितः; परमात्मनि त्रयं स्फुटमिति । कप्रत्ययेन गणितानन्दत्वमेव, न तु पुरुषोत्तमवत् पूर्णानन्दत्वमिति ज्ञाप्यते । कृष्णशब्देनैव पुरुषोत्तमस्वरूपं निरूपितमित्यक्षरस्वरूपं निरूपयन्ति द्विरूपमिति । तत् अक्षरं ब्रह्म । तदेव रूपद्वयं विशदयन्ति सर्वं स्यादिति । प्रपञ्चरूपेणाविर्भूतमेकमित्यर्थः । एकं रूपं तस्मात् प्रपञ्चरूपात् एकरूपत्वेन श्रुतिप्रतिपाद्यत्वेन ज्ञान्युपास्यत्वेन तन्मुक्तिस्थानत्वेन पुरुषोत्तमाधिष्ठानत्वादिविर्लक्षणमित्यर्थः । न च विरुद्धधर्मैर्भेदोत्र शङ्कनीयः । उभयो- र्धर्मयोरेकत्र प्रमाणसिद्धत्वेन विरोधाभावात् । विरुद्धधर्माश्रयत्वस्य ब्रह्मणि ‘तदेजति तन्नैजती’त्यादिश्रुतिभिर्निरूप्यमाणत्वात् । लोक एव विरोधः शङ्कनीयो, नत्वलौकिके ब्रह्मणि । इदं यथा तथा ब्रह्मसूत्रभाष्ये निरूपितमिति नात्र प्रपञ्च्यते ॥ ३ ॥ विरोधपरिहाराय स्वसिद्धान्तं वक्तुं परमतान्याहुः अपरमिति ।
श्रीविठ्ठलेशात्मजश्रीवल्लभकृतविवृतिप्रकाशः । धर्मः । ननु सच्चिदानन्दकत्वस्य पुरुषोत्तमेपि सत्त्वात् कथं तस्य भेदकत्वं तत्राहूः एते हीति । सच्चिदानन्दाः । तत्रितयं सच्चिदानन्दत्रयम् । अत एव । अक्षरस्य सच्चिदानन्दात्मकत्वादेव । तदात्मक अक्षरब्रह्मात्मकः । तस्मिन् प्रपञ्चे । एतावानिति । अक्षरब्रह्मणः सकाशात्प्र- पञ्चे विशेषः । तमेवाहुः जड इति । इतरौ चिदानन्दौ । आद्यौ सच्चितौ । परमा- त्मनि अन्तर्यामिणि । ननु भगवद्धर्माणामपि ‘प्रकाशाश्रयवद्वा तेजस्त्वा’दिति न्यायेन भगव- त्त्वमेवेति न भेदसिद्धिरिति चेत्, तत्राहुः कप्रत्ययेनेति । कप्रत्ययस्य हीनार्थकत्वादित्यर्थः । पुरुषोत्तमवदिति । पुरुषोत्तमस्वरूपभूतमुख्याक्षरवदित्यर्थः । कृष्णेति । कृष्णशब्दस्य परब्रह्मवाचकत्वात् तत्स्वरूपं तेनैव निरूपितम् । इतीति । पुरुषोत्तमस्वरूपनिरूपणा- कांक्षानिवृत्तिपूर्वकाक्षरनिरूपणाकांक्षासद्भावेतोः । एतावद्रूपकमक्षरं ब्रह्मेत्यक्षरस्वरूपं निरूपयन्तीत्यर्थः । द्विरूपमितीति । अत्रैकपदं देहलीदीपकन्यायेनोभयत्रान्वेति । एक- रूपत्वेनेति । प्रपञ्चरूपस्य तस्यानेकरूपत्वं तद्भिन्नरूपस्यैकरूपत्वम् । श्रुतिप्रतिपाद्य- त्वेनेति । प्रपञ्चकारणत्वेन । पुरुषोत्तमाधिष्ठानत्वादिविभिरिति । लीलाविशिष्टपुरुषोत्तमा- धिष्ठानत्वमित्यर्थः । आदिशब्देन पादत्वादयो धर्मा ग्राह्याः । तत्रायं विवेकः । आधिभौति- कजलस्याक्षरत्वेन ज्ञाने तस्याक्षरत्वात् तत्र सेवोपयोगिलीलासृष्टिष्ठपुरुषोत्तमात्मकजलाधि- ष्ठानत्वम्, एवमक्षरात्मके भगवदाकारादौ पुरुषोत्तमस्वरूपाधिष्ठानत्वमिति । विरुद्धेति । विरु- द्धत्वेन प्रतीतिविषयैरित्यर्थः । अत्रेति । प्रपञ्चाक्षरयोः । भेदः क्रियाफलभूतो विरोध इत्यर्थः । विरोधेति । भिन्नधर्मत्वात् ब्रह्म कथं जगद्रूपं भवितुमर्हतीति ज्ञानेन प्रतीतो ६ सि० मु०