षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 196, कुल 408 में से
संदर्भ में पढ़ें४४ सिद्धान्तमुक्तावली । नानन्तरं प्रवाहरूपाया अपि दर्शनं विहितात्स्वर्गापवर्गरूपात्फलाद्विशिष्यते । तद्धृदीत्यर्थः । यद्वा । येषां न प्रत्यक्षा, तेषामपि तया देवतारूपया सा तत्रास्तीति तत्सम्बन्धानुभा- वेनैव तज्जले प्राकाम्यं प्रकृष्टकामविषयत्वं श्रद्धाविशेषपूर्वकस्नानादिव्यवहारो भवतीत्यर्थः । किञ्च । पुराणादिषु तज्जलदर्शनादिभिः फलं यदुक्तं तदनुभवेन महतामन्तःकरणप्रतीत्यापि तज्जलमन्येभ्यो जलेभ्यो विशिष्यत इत्यर्थः । एवं येषां हृदि भगवत्सांनिध्यं ते भक्ता अन्येभ्यो विशिष्यन्ते । अत एव ‘मल्लिङ्गमद्भक्तजनदर्शनस्पर्श नार्चन'मिति भगवतोक्तम् । (एवं दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं निरूप्य उक्तमर्थं स्पष्टयन्ति यथा जलमित्यादिना । तत्रापीति । साधर्म्येपि । एतदिति । किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे, दृष्टान्ते त्रिविधत्वाभावात् अत उच्यते ।) जगत्त्विति । त्रिविधं त्रिगुणात्मकं त्रिस्वभावत्वेन प्रकटं, (तुशब्देन जले तथात्वं व्यावर्तितम् । ततस्तस्माद्धेतोः जगतीति वा । रूपवद्यथा जगतो रूपं त्रिविधम्, तथा तत्रत्यत्रिविधानां देवता उपास्याः ब्रह्मादयः त्रयः प्रोक्ताः, तत्तच्छास्त्रे निरूपिताः । देवतेति स्त्रीलिङ्गप्रयोगात् तेषामस्वातंत्र्यं द्योतितम् ।) तेन तद्गुणनियामकत्वेन ब्रह्मादयो भगवतैव कृता इत्यर्थः । (ते तु प्राकृतानामेव नियामकाः, न तु ज्ञानिनामपीत्याहुः ब्रह्मणित्थमिति ।) ब्रह्मैकरूपमिति तन्निष्ठानां नियामको श्रीविट्ठलेशात्मजश्रीवल्लभकृतविवृतिप्रकाशः । वा । एवमेवेति । सर्वत्र प्रपञ्चे इत्यर्थः । प्रवाहरूपाया अपीति । अनेन देवता- रूपायास्तथा दर्शनं तथा भवत्येवेति सूचितम् । तद्धृदीत्यनेन प्रतीत्यापि तथा दर्श- नमुक्तम् । यद्वेति । ग्रन्थार्थस्तु, येषां न प्रत्यक्षा, तेषां का व्यवस्थेत्याकांक्षायामाहुः प्राकाम्यमिति । तेषामपीत्यस्य तथा भवतीत्यनेनान्वयः । अस्मिन्पक्षे विहितादित्यस्यार्थ- माहुः किञ्चेत्यादि । अत एवेति । यतस्ते भक्ता अन्येभ्यो विशिष्यन्ते, अतो हेतोरित्यर्थः । एवं दृष्टान्तेन त्रिरूपत्वमुपपाद्योपसंहरन्ति, मूले यथा जलमिति । सर्वं जगत्, भक्ता तीर्थरूपा, देवी आधिदैविकरूपा मूर्तिमती गङ्गा । तत्रापीति । अहन्ताममतानिवृत्ति- रुभयत्राक्षरत्वेन ज्ञानं चेति चतुर्ष्वपि मध्ये एतद्दृश्यमानप्रकारकं ब्रह्मात्मकत्वेन शाब्दं प्रपञ्च- ज्ञानं इहास्मिन्नेव जन्मन्मपेक्षितत्वेन उच्यते इत्यर्थः । एतदभावे लौकिको भोगो भवेत्, स तु प्रतिबन्धकत्वेनोक्तोस्तीति भावेनाडुः जगदिति । तुशब्देन ब्रह्मात्मकत्वेन ज्ञाते प्रपञ्चे त्रिगुणात्मकत्वं व्यावर्तितम् । तत इति । यतो हेतोस्त्रिगुणात्मकं जगत् । ततो हेतोः । रूपवदिति । यथा जगतो रूपं त्रिविधम्, तथा तद्गुणाभिमानिन्यो देवताः प्रोक्ताः । यदा तु ब्रह्मात्मकत्वेन जगत् ज्ञातम्, तदा ब्रह्मणि इत्थं तदेवत्वेन हरिः पुरुषोत्तमो १. एवं दृष्टान्तदार्ष्टान्तिकयोरुक्तमपि साधर्म्यं यत्र यदंशेन तत्र तथा स्पष्टयन्ति यथा जलं तथा सर्वमिति । तत्राप्येतदिहोच्यत इति । तत्रापि साधर्म्येपि । एतज्जगत् तु त्रिविधमित्यारभ्य न चान्यथेत्यन्तेन वक्ष्यमाणं किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे तदृष्टान्ते गङ्गाजले त्रिविधत्वाभावात् अत उच्यत इत्यर्थः । जगदिति पाठान्तरं पुस्तकद्वये । क्वचित् पाठद्वयमपि मूले नास्ति ।