भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 217, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 217

श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ६५ गङ्गादृष्टान्तस्य तात्पर्यान्तरमाहुः भक्त्यभाव इति । भक्त्यभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः । अन्यथाभावमापन्नस्तस्मात्स्थानाच्च नश्यति ॥ २० ॥ एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् । एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशयात् ॥ २१ ॥ इति श्रीवल्लभाचार्यविरचिता सिद्धान्तमुक्तावली सम्पूर्णा ॥ भगवत्सान्निध्यदेशेऽपि स्थितौ भक्त्यभावे तथा भवतीति भावः । एतेन भक्तेरा- वश्यकत्वमुक्तं भवति । ( सप्रयोजनमुक्तमुपसंहरन्ति एवमिति । उक्तप्रकारेण स्वशास्त्र- रूपं स्वशास्त्रस्य वा सिद्धान्तरूपसर्वस्वं गुप्तं स्वल्पेन बहु निरूपितत्वात् गम्भीरतात्पर्यं बहिर्मुखानामज्ञापनीयं वा । किं तेनेत्यत आहुः एतदिति । एतज्ज्ञानेन स्वमार्गसम्बन्धि- सर्वसंशयनिवृत्तिर्भवति, अन्यथा ‘संशयात्मा विनश्यती’ति बुद्धिरन्यथा भवेदित्यर्थः । ) ॥ २० ॥ २१ ॥ इति श्रीपितृपादाब्जपरागरससिक्तहृत् । श्रीविठ्ठलस्तत्सिद्धान्तवाञ्छालां हृदये दधौ ॥ १ ॥ श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । तात्पर्यान्तरमिति । पूर्वे ‘ज्ञानाधिक’ इत्यनेन भक्तेर्ज्ञानाधिक्यरूपं तात्पर्यमुक्तम् । अनेन भक्तेरावश्यकत्वरूपं तात्पर्यमुच्यते । भक्त्यभाव इतीति । तीर्थात्मकत्वेन जानन्नपि तीरस्थितोपि भक्त्यभावे दुष्टैः कर्मभिः अन्यथाभावं जलत्वेनैव ज्ञानवान् तस्मात् स्थाना- त्तीर्थत्वज्ञानादेव नश्यतीत्यर्थः । तथा भवतीति । अक्षरब्रह्मात्मकत्वेन ज्ञानवानपि दुष्टैः प्रारब्धैः स्वकर्मभिरन्यथाभावं प्राप्तः प्रपञ्चत्वेनैव जानन् तस्मात् स्थानात् ब्रह्मात्मकत्वज्ञा- नान्नश्यतीत्यर्थः । न च ज्ञानेन सर्वपापक्षयात् कथमन्थाभावो वक्तुं शक्य इति शंक्यम् । ज्ञानस्यानारब्धानामेव कर्मणां नाशकत्वात् । प्रारब्धकर्मणां नाशस्तु पुष्ट्यैवेति सिद्धं भक्तेरे- वावश्यकत्वम् । एवमिति । पूर्वोक्तप्रकारेण । स्वशास्त्रेति । स्वशास्त्रस्य सेवाप्रकार- रूपं सिद्धान्तम् । गुप्तं निरूपितमिति । गुप्ततया निरूपितम् । एतदिति । यन्मया गुप्तं निरूपितम् । एतद्बुद्ध्वा विमुच्येत । सर्वसंशयाद्विमुक्तो भवतीत्यर्थः । पुनः कदापि संशयं न प्राप्नोतीति विशब्दार्थः ॥ इति श्रीरघुनाथात्मजश्रीव्रजनाथविरचिता सिद्धान्तमुक्तावलीविवृतिटिप्पणी । ९ सि० मु०