षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 221, कुल 408 में से
संदर्भ में पढ़ेंयत्वमभिमतम् । विषयत्वेन जडत्वेन व्याप्तेः स्वीकारात् । नन्वारोपे ह्यधिष्ठानसामान्यज्ञानं कारणं, न तु विशेषतो ज्ञानम् । अहंवृत्तौ भासमानस्यात्मनो भवत्येव सामान्यज्ञानमिति चेत्, न । उपाध्यवच्छिन्नस्यैवाहम्प्रत्यये भासमानत्वात् । एवं सद्यात्मनो निरुपाधिकस्य ज्ञानाभावान्न तत्र जगदारोपः संभवतीति विद्वद्भिर्ज्ञेयम् । केचित्तु निषेधमुखेन ज्ञानं सामा- न्यज्ञानमित्याहुः । तन्न । शास्त्रोत्पाद्यस्य तस्यासार्वजनीनत्वे मूर्खाणां जगत्प्रत्ययाभावप्रस- ङ्गात् । सर्वव्यावृत्तताज्ञानस्य त्वधिष्ठानविशेषज्ञानत्वेन प्रत्युत भ्रमनिवर्तकत्वाच्च । न च कस्यचिद्गगनज्ञानाभाववतोऽपि बालादेर्गगने नीलिमभानान्नाधिष्ठानसामान्यज्ञानस्य भ्रम- कारणत्वम् । तथा सति निर्विशेषस्याधिष्ठानस्य सामान्यज्ञानाभावेऽपि तदधिष्ठानको जग- द्भ्रमः स्यादेवेति वाच्यम् । इदं किञ्चिन्नीलमित्याकारकस्य किञ्चित्त्वेन रूपेणाधिष्ठानज्ञानस्य तत्रापि सत्त्वात् । अन्यच्च । यद्यधिष्ठानज्ञानरहितस्यापि नीलिमप्रतीतिरङ्गीक्रियेत, तदा तत्प्रतीतेर्भ्रमत्वमेव न स्यात् । नीलिमज्ञानस्य सर्वदा सर्वेषां जायमानत्वादुपाधिजन्यत्वाभा- वेनोपाधिनाशनाश्यत्वाभावाच्च । मायिकस्य नीलरूपस्य विद्यमानस्यैव विषयत्वेन तद- वगाहिज्ञानस्य भ्रमत्वायोगात् । न च तस्यानिर्वचनीयत्वं, सदसद्भिन्नतयेति वाच्यम् । नीलिम्नः सर्वदैव विद्यमानत्वेन प्रतीतिविषयतया ज्ञानबाध्यत्वाभावेन गगनवत्स्थिरतयाऽनि- र्वचनीयकल्पनायाः प्रवेशानवसरात् । अधिष्ठानभूतं गगनमनवगाह्यैव इदं नीलमिति प्रत्य- यात् । गगनस्य नीरूपत्वान्नीलरूपारोपे भ्रमत्वस्य सुवचनत्वात् । तथा गगनं नीलमिति प्रती- तावेव भ्रमत्वं न तु केवलं नीलमिदमिति प्रतीतौ । तत्र गगनावगाहाभावात् । तदभाववति तदारोपाभावात्, प्रतीतिविषयतया ह्यसत्त्वस्यापि भवन्मतेऽनङ्गीकारात् । अतः सत्त्वमेवोरी- कार्यं स्यात् । तथा सति तदवगाहिज्ञानस्य प्रमात्वमेवापद्येत । अत एतद्दूषणपरिहृतयेऽ- धिष्ठानस्य वियतः केनचिद्रूपेण ज्ञानं बालादीनामप्यस्तीति मन्तव्यम् । तथाच यदा शास्त्रस- मुत्पन्नबुद्ध्या नीरूपत्वेन वियतः केनचिद्रूपेण ज्ञानं बालादीनामप्यस्तीति मन्तव्यम् । तथा च यदा शास्त्रसमुत्पन्नबुद्ध्या नीरूपत्वेन वियतो ज्ञानं समभूत्, तदा रूपरहिते वियति नील- रूपस्यासम्भवं जानन् नीलिमानमसन्तमेव निश्चिनोति । एवं बाधविषयत्वेन सत्त्वाभावाद- विद्यमाननीलरूपावगाहिज्ञानस्य भ्रमत्वं सुवचमिति सन् पन्थाः । एतावता सिद्धमेतत् । अधिष्ठानसामान्यज्ञानं भ्रममात्रे कारणम् । तथा सति परमतेऽधिष्ठानत्वेनाभिमतस्य निर्वि- शेषब्रह्मणः केनापि प्रकारेण ज्ञानविषयत्वाभावान्न तस्मिन्नधिष्ठाने भ्रमः संभवतीति दिक् । यद्यपि सत्तारूपेण सर्वत्र तदस्ति, तथापि न ज्ञातुं शक्यम् । घटः सन् पटः सन्नित्यादौ तु न निर्विशेषरूपा सत्ता प्रतीयते, अपि त्वधिष्ठेयनिष्ठसत्ताया एव प्रतीतिरिति भ्रमोऽधिष्ठानरूपब्रह्मणि निरूपयितुमशक्य एवेति प्रपञ्चमिथ्यात्वं विद्वद्भिर्नादर्तव्यम् । किञ्च । जगदभिपश्यतः परमेश्वरस्यापि भवन्मते भ्रान्तत्वापातः । भ्रमप्रतिपन्नस्य रजता-
१ जगत्प्रतीत्यभावेति ख. २ सुवचत्वादिति स्यात् ।