भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 223, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 223

[Header] श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ७१

वात् । ननु 'त्वय्यद्वितीये भगवन्नयं भ्रम' इत्यादिवाक्येष्वसत्यता दृश्यत इति चेत्, न । भ्रमः अज्ञानमसदित्यादिशब्दानामहन्ताममतात्मकसंसारविषयत्वात् । एतच्चाग्रे स्पष्टम् । किञ्च । अनादिरयं भ्रम इति प्रवादोऽपि चिन्त्यः । भ्रमत्वस्य ज्ञानत्वव्याप्यत्वात् यावज्ज्ञानानां जन्य- त्वनियमात् । न च 'बन्धोऽस्याऽविद्ययाऽनादिरि'ति वाक्यादनादित्वम् । अविद्यायाः कारणत्वव्याघातापत्तेः । तथाचेह सादित्वनिषेधो घटपटादिसाधारणोपेक्ष्यकः । देवेष्वमरपदेन मरणनिषेधवत्।अतः सर्वथा प्रपञ्चभ्रमे अनादित्वकथनमयुकमेव । अन्यच्च । ज्ञानबाध्यत्वं मिथ्या- त्वमित्याहुः । तन्न । चरमवृत्तिरूपे ज्ञाने ज्ञानबाध्यत्वाभावाद्व्याप्तेः । चरमवृत्तेः कतकरेणुदृष्टा- न्तेन स्वत एव नाशाङ्गीकारात् । न चाज्ञानजन्यत्वं मिथ्यात्वमिति वाच्यम् । मूलाज्ञानेऽज्ञान- जन्यत्वविरहेण लक्षणाव्याप्तेः । मूलाज्ञानस्य भवत्सिद्धान्तेऽनादित्वाङ्गीकारात् । प्रकृतमनुस्रियते । ब्रह्मणो रूपत्रयम् । तत्राधिदैविकं परं ब्रह्म कृष्णाख्यं प्रथमम् । आध्यात्मिकमक्षरात्मकं द्वितीयम् । आधिभौतिकं प्रपञ्चात्मकं तृतीयम् । तत्र स्पष्टार्थं गङ्गां दृष्टान्तीकुर्वन्ति द्विरूपं चापि गङ्गाषदित्यादिना । माहात्म्यसंयुतेति । मर्यादामार्गवि- धिना सेवतां भोगमोक्षदात्री द्वितीया तीर्थरूपेत्यर्थः ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ आधिदैविक्याः स्वरूपमाहुः तत्रैवेति । तत्रैव देवतामूर्तिर्भक्त्या या दृश्यते क्वचित् । गङ्गायां च विशेषेण प्रवाहाभेदबुद्धये ॥ ७ ॥ प्रत्यक्षा सा न सर्वेषां प्राकाम्यं स्यात्तया जले । विहिताच फलात्तद्धि प्रतीत्यापि विशिष्यते ॥ ८ ॥ यथा जलं तथा सर्वं यथा शक्ता तथा बृहत् । यथा देवी तथा कृष्णस्तत्राप्येतदिहोच्यते ॥ ९ ॥ तृतीये भौतिके रूपे भेदमाहुः जगच्चेति । जगत्तु त्रिविधं प्रोक्तं ब्रह्मविष्णुशिवास्ततः । देवतारूपवत्प्रोक्ता ब्रह्मण्येत्थं हरिर्मतः ॥ १० ॥ कामचारस्तु लोकेऽस्मिन् ब्रह्मादिभ्यो न चान्यथा । परमानन्दरूपे तु कृष्णे स्वात्मनि निश्चयः ॥ ११ ॥ अतस्तु ब्रह्मवादेन कृष्णे बुद्धिविधीयताम् । त्रिविधं त्रिस्वभावत्वेन प्रकटम् । आधिदैविके अंशभेदानाहुः । ब्रह्मविष्णु- शिवाः देवतारूपवत्प्रोक्ता इत्यन्वयः । अत्रायमर्थः । देवताया आधिदैविकरूपाया गङ्गाया रूपाणि अंशभूतानि भीष्मजनन्यादीनि मूर्तिमन्ति तत्तत्पुराणादौ प्रोक्तानि, तद्वद्देवतारूपस्य कृष्णस्य ब्रह्मविष्णुशिवरूपाणि अंशभूतानीत्यर्थः । तान्येव रूपाणि

[Footnote] १ करणत्वेति पाठः ।