षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 230, कुल 408 में से
संदर्भ में पढ़ेंभगवद्रूपं पश्येम, अक्षभिः अलौकिकनेत्रैः, भो यजत्राः सेवाकर्तारः ततो नीरांजनसमये तनूभिः कोमलैः स्थिरैरङ्गैस्तुष्टुवांसः यदायुस्तदेव हितं भगवदर्थं व्यशेम समर्पयावः, याव- ज्जीवं सेवां कुर्मः इत्यादिभिः सर्वोपि षडङ्गस्तुसेवाप्रकार उक्तः । स एव श्रीमदाचार्याणां सिद्धान्तविनिश्चयः श्रुत्यर्थानंदसंदोहः श्रीव्रजाभरणदीक्षितैः कृतः । तत्र सेवाप्रकारो विस्तरेण विवृतः । प्रकृतमनुसरामः। टीकायां कर्मणीति यथा 'अनुदिते सूर्ये जुहोति' 'उपस्थायार्कमुद्यन्त' मित्यादि तथा सेवायां नास्ति, अत्र तु 'किमपि क्वाप्युपाहर्तुमिच्छत्युद्धा तद्गोपिकेश' इति स्वेनैवोक्तम् । 'ण्य अवश्यके' इति सूत्रात् यद्यपि मानसी सेवा न जीवकृतिसाध्या, यथा तत्फलं अलौकिकसामर्थ्यं भगवता दाने कृते सिध्यति, तथापि मूले कार्येति विधिवाक्येन टीकायां अकरणे प्रत्यवायीभवतीति विवरणेन च श्रीमदाचार्यगोस्वामिभ्यां स्वशरणगतेभ्यो वरत्वेन दत्तेति मम प्रतिभाति, मूले कृष्णसेवेति कृष्णसेवयोः समासेन कार्यकारणान्विय- संबंधः सूचितः । श्लोकान्वयस्तु अहं श्रीमदाचार्यः हरिं नत्वा स्वसिद्धान्तविनिश्चयं प्रवक्ष्यामि किं च तत् कृष्णसेवा सदा कार्या, तेन यथा कृष्णः फलात्मा, तथा कृष्णसेवापि फलात्मिका । प्रतीकभवतारयन्ति प्रभवः एतदेवेति । एतदिति यदेकादशे श्रीकृष्णेनोद्धवं प्रति द्वादशाध्याये रामेण सार्धमिति संदर्भे उक्तम्, प्रुङ्गतौ, प्रवणं गमनं, तस्मिन् प्रवणं तत्प्रवणं चेतसः तत्प्रवणं तदेव सेवारूपं, चेत इति, चेतस्तत्प्रवणे यथा मणिच्छिद्रे दोरकस्य प्रवणं तथा भगवदीयचेतसो भगवति तत्प्रसादोत्पादनानुकूलव्यापारे वा प्रवणं यथा स स्वाधीनो भवेत्तथा करणं सेवा तत्सिद्धयै तनुवित्तजास्ति, ततः संसारदुःखस्य निवृत्ति- र्ब्रह्मबोधनं च भवतः, ......... 'विवक्ष्यामि त्वं मे भक्तः सुहृत् सखेति दुर्लभत्वं प्रतिज्ञाय द्वितीयपादविवरणमवतारयन्ति श्रीगोकुलनाथा मानथायत्वं ? । यद्वा फलमत उपपत्तेरित्यारभ्य भाष्यकर्तृत्वेनाचार्यत्वं, अत एवास्मिन् मार्गे आचार्यद्वयम्, उत्तरार्धमवतारयन्ति प्रभवः एतादृशस्येत्यादि, टीकायां समस्तपदमिति तनुवित्तजेति समस्तं । तनुश्च वित्तं च तनुवित्ते ताभ्यां जाता कृता स्वतः प्रादुर्भूता वा तनुवित्तजा । द्वन्द्वान्ते श्रूयमाणत्वात् तनुजा वित्तजा च, तत्सिद्धौ, ते इति संसारनिवृत्तिर्ब्रह्मबोधनं, वस्तुस्वभावादिति मानसीपूर्वरूपवस्तुस्वभावात् , मानसीसेवासिद्धयै तनुवित्तजा, सृष्टिः दैवी आसुरी च पुष्टिं कायेनेति वाक्याद् दैवी तनुजा, वित्तं माया तदुद्भूता आसुरी, उभे मानसी सेवार्थके दैवी सेवा कर्त्री, द्वितीया तद्रूपज्ञा- पिका । तृतीयश्लोकमवतारयन्ति प्रभवः इदमेवेति, इदमित्यक्षरं ब्रह्म, परं ब्रह्मेति पुरुषोत्तम इति अत्रेति अक्षरब्रह्मेति, भेदकमिति पुरुषोत्तमाद्भेदकम् , एते हीति 'सच्चिदानंदा इति, तदा- त्मक इति अक्षरब्रह्मात्मकः, प्रपञ्चेति श्रीभागवते प्रपञ्चवर्णनं कृत्वा एतद्भगवतो रूपं ब्रह्मणः परमात्मन' इत्युपसंहारात् , एकरूपत्वेनेति 'अतःपरं यन्महतो महान्तं यदेकमव्यक्तमनं- तरूपं । विश्वं पुराणं तमसः परस्तात् परात्परं नान्यदणीयसो हि' परात् परम्, श्रुतिप्र- तिपाद्यत्वेनेति । सर्वे वेदा यत् पदमामनंतीति, ज्ञान्युपास्यत्वेनेति । ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः । क्लेशोधिकतरस्तेषामिति गीतावाक्येन ज्ञान्युपास्यत्वमक्षरब्रह्मणः, तन्मुक्तिस्थानत्वेनेति । न संदृशे तिष्ठति रूपमस्य न चक्षुषा