षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 232, कुल 408 में से
संदर्भ में पढ़ेंस्वतन्त्रः ।
श्रीकृष्णाय नमः । तस्मादिति । यस्मात् ज्ञानयुक्तस्य भक्तस्यात्मनि भगवदाविर्भावो न बहिरितिलोकस्फूर्तिराहित्येन तदपरित्यागो । यद्वाद्धा प्रपन्नासक्तस्य तन्निष्ठतयैव तदसम्भ- वस्तस्माद्धेतोर्यः श्रीकृष्णमार्गस्थः आविर्भूतसदानन्देन 'तस्मात्त्वम्' 'सर्वधर्मान्परित्यज्ये'त्या- दिना प्रोक्तो मार्गो, गोपिका मनसि निधाय, '...पुष्टिमार्गस्तस्मिन् स्थितः सर्वलोकत उदासी- नः स्वीयरूपतः स्वयमेव विमुक्तो, न तु ते स्वस्मान्मोचनीयाः, अभिसारिकाभिरिव व्याजेन । तथा सति सर्वथा सर्वपरित्यागाभावेन सर्वात्मभावो न भवेत् । एतादृश आत्मानन्दसमुद्रस्थं बहिः स्वामिनीसंबंधिलीलासान्धिनिमग्नमितरस्फूर्तिरहितं कृष्णमेव तद्भावरूपमेव, न तु स्वात्मनि स्वभावरूपं विचिन्तयेत्, विशेषेण लीलाविशिष्टतया भावयेत् । ननु लोकपरि- त्यागाभावेपि कामिनीनामिव भजनसंभवात्किमर्थं स उक्त इति चेत् । तत्राहुः लोकार्थी चेदिति । तदपरित्यागे यत्किञ्चित्संकोचसंभवेन तदर्थित्वमेव तादृशस्य भजने कामिनीनाम्, मनःसत्त्वेप्यवसराप्राप्त्या क्लेशवत् क्लेशः स्यात् । ननु तथाप्यभिसरणादौ रसविशेषोस्तीति किं क्लिष्टोपीति चेत्तत्राहुः क्लिष्टोपीति । क्लिष्टोपि चेद्भजेत्तदातिभजने लोकप्रसिद्ध्या कामिनामिव लोकनाशः । अतो भजने प्रतिबन्धं संपाद्य वृथालोकानुरोधः पुष्टिमार्गीयैर्न विधेयो, रसस्वरूपत्मकत्वात्सर्वात्मभावसिद्धौ विशेषत एव तत्सिद्धिरितिभावः । इति श्रीह- रिदासोक्तः सिद्धान्तमुक्तावलीस्थतस्माच्छ्रीकृष्णमार्गस्थो लोकार्थीचेत्यत्र लेखः।